________________ 220 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / मथ तस्य तन्निष्कासनमाह-पाण्डित्य पाण्डित्यदर्पसंपूर्णे ! पापे ! मद्दपथं त्यज / इत्याद्युक्त्वा विरुद्धं स सौधात् तां निरकासयत् // 37 // पाण्डित्यस्य दर्पणाभिमानेन सम्पूर्णे ! समस्ते ! पूर्णे ! पापे ! मम मानराजस्य दृक्पथं त्यज, मददृष्टयग्रतो दूरं याहीत्यर्थः / इत्यादि विरुद्धमनुचितमुक्त्वा स मानराजः सौधात् स्वगृहात्तां स्वपत्नी निरकासयत् बहिष्करोत् // 37 // अथ तस्या वापीगमनमाह-सैवमिति सैवं तेन पराभूता भूतातेनैव केवलम् / सौधाद् बहिः स्थिता वापों संप्राप्यैवमवोचत // 38 // सा मानराजपत्नी भूतेन प्रेतेनाःणाक्रान्तेनेव दुर्बुद्धिना एवमुक्तप्रकारेण केवलमतिमात्रं पराभूताऽवगामिता सती सौधात्स्वगृहाद्वहिः स्थितां वापी दीर्घिकां सम्प्राप्य एवं वक्ष्यमाणप्रकारेणाघोचत // 38 // अथ तदुक्तिमाह-देवा इति देवा देव्यश्च शृण्वन्तु ममैतां गिरमुच्चकैः / नाऽपराधं विजानामि येन रुष्टः स मे प्रियः // 39 // __ देवा ! देव्यश्च मम मोनराजपत्न्या एतां वक्ष्माणां गिरं शृण्वन्तु, का सा गीरित्याहयेनापराधेन स मे प्रियः मानराजः रुष्टोऽप्रीतो जातः तमपराधमहं न विजानामि // 39 // ननु ततः किमित्याह-अर्धेति अर्धचन्द्रमदानेन तेन निष्कासिता गृहात् / न क्षमे जीवतं धतु विना तेन ततो म्रिये // 40 // तेन मानराजेन भर्धचन्द्रप्रदानेन गलहस्तिकया कृत्वा गृहान्निष्कासिता बहिष्कृता सती तेन प्रियेण मानराजेन विना जीवितं धर्तुं जीवितुं न क्षमा समर्था अस्मीति शेषः, ततो जीवनधारणासमर्थतया म्रिये वापीपातेन त्यजामीति // 40 // अथ तस्या वाप्यां झम्पापातमाह-अमुत्रेति-- अमुत्राऽपि भवे भूयाद् भर्ताऽयं वः प्रसादतः / इत्युदीर्य जले झम्पां साऽदादमृत च क्षणात् // 41 // अमुत्र परलोकेऽपि भवे जन्मनि वः देवदेवीनां प्रसादतः अयं मानराजः भर्ता पतिर्भूयादित्याशासे, इतीत्थमुदीर्योक्त्वा सा मानराजपत्नी जले वापीजले झम्पामादाद् झम्पापातमकरोत् , क्षणादमृत गतासुरभवच्च // 41 //