________________ 219 आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / भूत् उपेक्षणीयेत्यर्थः / या रसवती लावण्यमयी लवणस्य भावः लावण्यं तन्मयी तत्प्रचुरा लवणाकरा, किलेल्यप्रिये ? इष्टाधिकलवणवती रसवतीव मानवती वधूरपि उपेक्षणीयेत्युपमा // 32 // अथ मानराजकृततदवज्ञामाह-विचीति विचिन्त्येदमवज्ञाय तेन विज्ञाऽपि सोझिता / स दृष्टयाऽपीक्षते नैतां संलापस्य कथैव का ? // 33 // इदमुक्तं विचिन्त्य तेन मानराजेन विज्ञा चतुराऽपि सा स्ववधूरवज्ञाय अवहेलामास्थायोज्झिता त्यक्ता, तत्प्रकारमेवाह-स मानराजः दृष्टया एतां ववूमीक्षतेऽवलोकतेऽपि न, तर्हि संलापस्य भाषणस्य कथा चर्चेव का ? न कापीत्यर्थः, यत्र दर्शनस्याप्यभावः, तत्र वचनाभावः सुतराम् // 33 // अथ तस्यास्तदनुनयनमाह-रुइति रुष्टोऽयमिति विज्ञाय वाणिन्या स तयाऽन्यदा / अभाणि प्रिय ! नो कश्चिद् मन्तुस्त्वयि मया कृतः // 34 // अयं प्रियो मानराजः रुष्टोऽप्रीत इति विज्ञायानुमाय अन्यदैकदा वाणिन्याभाषमाणया तया वध्वा स मानराजोऽभाणि, किमित्याह प्रिये / त्वयि विषये मया त्वत्पन्या कश्चिद् मन्तुरपराध न कृतः // 34 // त्वप्रीतताऽस्थाने इत्याह-तदिति-- तदीश ! मयि दास्यां किमप्रसादस्तवेदृशः / / प्रसन्ने भर्तरि स्त्रीणां समसादं हि मानसम् // 35 // ईश ? स्वामिन् ! तत्ततः अनपराधाद्धेतोः मयि दास्यां त्वत्सेवापरतया दासीकल्पायां तव मानराजस्य ईदृशः ईक्षणभाषणायभावरूप: अप्रसादोऽप्रोतता किम् ? नैतदुचितमित्यर्थः / त्वयि अप्रसन्ने ममापि खेद इत्याह-हि यतः भर्तरि पत्यौ प्रसन्ने स्त्रीणां मानसं सप्रसाद प्रसन्नं भवतीति शेषः // 35 // .. अथ तस्याः प्रणिपातमाह-एवमिति एवं सानुनयं प्रोक्तोऽप्येष तां न यदाऽवदत् / तया तदा पदाब्जान्तः शिरोधृत्वा स मानितः // 36 // एवमुक्तप्रकारेण सानुनचं सप्रार्थनं प्रोक्तः भाषितोऽपि एप मानराजः यदा तो स्वपत्नी नावदत् , तदा तया मानराजवध्वा स मानराजः पादाब्जयोः चरणकमलयोरन्तः समीपे शिरोधृत्वा मानितः पादयोः प्रणिपत्य प्रसादितः // 36 //