SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 1218 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। 'अथ तस्यौद्धत्यान्तरमाह-नेति न देवता गुरून् नाऽपि यौवनेऽपि ननाम सः / कुशीलताकलापेन स्तब्धेनेव विनिर्मितः // 28 // स मानराजः यौवने विवेकयोग्ये तारुण्येऽपि देवताः न, गुरून्नापि ननाम, कुशीलतायाः दुःशीलतायाः कलापेन समूहेन स्तब्धेन स्तब्धतया, जडत्वेनेवेत्यर्थः, विनिर्मित इव स्थितः, समानराजः अतिदुर्विनीतः स्तब्धश्चाभूदित्यर्थः // 28 // अथ मानराजपरिणयमाह-श्रीसोमेनेति श्रीसोमेन महीन्द्रेण तारुण्योल्लसदङ्गकः / समग्रगुणसम्पन्नां कन्यां स परिणायितः // 29 // महीन्द्रेण नृपेण श्रीसोमेन तारुण्येनोल्लसन्ति शोभमानान्यङ्गकान्यङ्गानि यस्य स तादृशः तरुणः स मानराजः सर्वगुणसम्पन्नां गुणवती कन्यां परिणायितः // 29 // मम्येधुरिति अन्येधुर्वासमध्यस्थं तत्प्रिया तमभाषत / किश्चिदात्याहि विज्ञानं कान्त ? प्रश्नोत्तरादिकम् // 30 // अन्येचुरेकदा तस्य मानराजस्य प्रिया वासमध्यस्थं शयनगृहस्थं तम् मानराजमभाषत, किमित्याह-कान्त ? प्रिय ! विज्ञानं विशिष्टज्ञानजनकं किञ्चित् यथेष्टम् प्रश्नोत्तरादिकम् आख्याहि कथय, ज्ञानवर्धनम् किञ्चिद्वार्ता प्रश्नोत्तरद्वारेण परस्परमालापं वा कुवित्यर्थः // 30 // अथ मानराजकृतदुस्तर्कमाह-दुरिति दुर्विदग्धा दधात्येषाऽखर्व गवं स्वरूपतः। दुष्टा ममोपहासाय यदेवं परिपृच्छति // 31 // दुर्विदग्धा अल्पज्ञानेनापि स्वं ज्ञानवतीं मन्यमाना एषा मम पत्नी स्वरूपतः लक्षणतोऽखर्व महान्तं गर्वमभिमानं दधाति, यद्यतः दुष्टा दुराशया मम कलाविहीनस्योपहासाय त्वं मुखोऽसि इत्येवमुपहसनाय एवमुक्तप्रकारेण परिपृच्छति, अहं मूर्योऽस्मीत्येवमियं ज्ञात्वाऽपि विज्ञानवार्ती पृच्छतीति ममोपहासं विहाय किमन्यदस्य प्रयोजनमिति भावः // 31 // अथ तस्य तां प्रति निर्वेदमाह-किमिति किं तया क्रियते वध्वा या मानं मानयत्यलम् ? मा भूद् रसवती साऽपि या लावण्यमयी किल // 32 // तया वध्वा पत्न्या किं क्रियते ? न किमपि प्रयोजनमित्यर्थः / कयेत्याह-या वधूः अलमत्यर्थ मानं गर्व मानयति दधाति, तत्र दृष्टान्तमाह-सा रसवती ओदनादिपाकोऽपि मा
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy