________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 217 पुनः सोऽपि भग्निशर्मजीवोऽपि कुञ्जरावर्ते तदाख्ये पत्तने नगरे विप्रः ब्राह्मणः अभूत् , ततस्तत्र जन्मनि विषयः उद्विग्नः नितरामप्रीतः वैराग्याद्विषयेष्वनभिनिवेशाद्धेतोः तपस्वितां ललौ // 23 // मथ तस्य न्यन्तरभवमाह-अज्ञानादिति-- अज्ञानादेष संचित्य दुस्तपानि तपांस्यपि / आयुःक्षये पुनमृत्वा बभूव व्यन्तरामरः // 24 // एषोऽग्निशर्मजीवः दुस्तपानि दुःखेन तप्तुं शक्यानि, दुष्कराण्यपीत्यर्थः, तपांसि संचित्य कृत्वा, तैः पुण्यमुपार्जयित्वेत्यर्थः, पुनरायुःक्षये मृत्वा व्यन्तरामरः व्यन्तरदेवो बभूव // 24 // अथ तस्य राजकुले जन्मयुग्ममाह-सोऽथेति-- सोऽथच्युत्वा महानन्दसम्पूर्णाऽखिलनागरे / महानन्दपुरे श्रीमत्सोमविश्वम्भरापतेः // 25 // नन्दाकुक्षिभवो मानराजाख्यो नन्दनोऽजनि / धात्रीभिर्यों बहूक्तोऽपि कस्यचिद् नाऽनमच्छिरः // 26 // अथानन्तरम् , सऽग्निशर्मजीवः च्युत्वा महानन्देन सम्पूर्णा अखिला नागरा नगरजना यस्मिन् तादृशे महानन्दपुरे तदाख्यनगरे श्रीमतः सोमस्य तदाख्यस्य विश्वम्भरापतेः महीपतेः नन्दायाः तदाख्यायाः सोमनृपपन्याः कुक्षिभवो गर्भजः मानराजाख्यः नन्दनः पुत्रोऽजनि जातः, यः धात्रीभिरुपमातृभिः बहूक्तः वारंवारमुपदिष्टोऽपि कस्यचित् शिरोऽनमन्न न कस्यचित्प्रणनामेत्यर्थः, अत्युदण्डोऽभिमानी चाभूदित्यर्थः // 25 // 26 // .. अथ तस्य कलानभिशतामाह-वाल्यादपीति बाल्यादपि कला काऽपि भेजे मानोद्धतं न तम् / संतापकारिणं सूरमिव काव्यगुणद्विषम् // 17 // बाल्यादपि बाल्यमारभ्यैव, मानोद्धतमुण्डाभिमानिनं तं काव्यगुणद्विषम् काव्यस्य कविकर्मणः गुणस्य विनयादेश्च द्विषमज्ञानादनाश्रयणाच्च शत्रुरूपम् , अथ च काव्यगुणान् प्रासादादीन् शास्त्रप्रसिद्धान् द्वेष्टीति तं कलुषाशयम् , मानराजम् , संतापकारिणं निजातपेन तापदायिनं काव्यगुणद्विषम् शुक्रग्रहप्रकाशमोषकम् , सूर्यकरेण सर्वग्रहप्रकाशाभिभवादिति भावः / सूरं सूर्यमिव संतापमौद्धत्येन दुःखं करोतीत्येवं शीलं सकलजनत्रासदायकं मानराजं काऽपि कला विद्या, अथ च षोडशांशरूपा चन्द्रकला, न भेजे शिश्राय, सूर्य यथा चन्द्रकला नाश्रयति, तथाऽविनयिनमेनं विद्या नाशिश्रियदित्यर्थः / न विना विनयं विद्याप्राप्तिरिति भावः // 27 // 28 शार