________________ श्री शान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। इत्याद्युक्तप्रकारमन्योन्यमालापमाभाषणं विदधत्सु कुर्वत्सु पौरेष्वपि विषये तथैव पूर्ववदेव दण्डं लकुटरूपमुद्यम्योत्तोल्य कोपेन कम्पयतीत्येवंशीलः कोपकम्पनः कोपेन कम्पायमानगात्र: सोऽग्निशर्मा अधावत्प्रहत्तुं नवादगात् // 18 // - अप तस्य मृत्युमाह-कारागारेति-- ___ कारागारे परिक्षिप्तः स धृत्वा राजपूरुषैः / वेदना विविधास्तत्र विषह्याऽऽयुःक्षये मृतः // 19 // सोऽग्निशर्मा राजपूरुषैः पत्तिभिः धृत्वा निगृह्य कारागारे परिक्षिप्तः न्यस्तः, तत्र कारागारे विविधाः वेदनाः यन्त्रणा विषह्य प्राप्यायुःक्षये मृतः // 19 // अधाग्निशर्मणः पुनर्भवमाह-नरकमिति-- नरकं सप्तमं प्राप्तः स सेहे दुःसहा व्यथा / समाप्याऽऽयुस्ततो जज्ञे मौनः स च महाम्बुधौ // 20 // सोऽग्निशर्मजीवः सप्तमनरकं प्राप्तः दुःसहाः सोढुमशक्याः व्यथाः पीडाः सेहे, आयुः सप्तमनारकीयायुः समाप्य पूरयित्वा ततः सप्तमनरकात्सोऽग्निशर्मा महाम्बुधौ मीनश्च जज्ञे जातः // 20 // मथ तस्य भवान्तरमाह-विपद्येति-- विपद्य कथमप्येष निरयं पाप पञ्चमम् / जातो गङ्गाइदे मत्स्यस्ततोऽघानि स धीवरैः // 21 // कथमपि केनापि प्रकारेण विपद्य मृत्वा एषोऽग्निशर्मजीवः पञ्चमं निरयं नरकं प्राप, तदायुः पूरयित्वेतिशेषः, गङ्गाहृदे मत्स्यो जातः, ततस्तत्र स मत्स्योऽग्निशर्मजीवः धीवरैः दाशैः अघानि हतः “कैवत्र्ते दाशधीवरा" वित्यमरः // 21 // अथ ततो भवान्तरमाह-विहग इति-- विहगोऽभूत् ततोऽमारि पाशिकः पाशसंयतः / सोऽकामनिर्जरायोगादेवं पातकमक्षिपत् // 22 // विहगः धीवरमारितोऽग्निशर्मजीवः पक्षी अभूत् , ततस्तत्र पक्षिभवे पाशेषु बन्धनरज्जुवि. शेषेषु संयतो बद्धः सन् पाशिकः व्याधैरमारि हतः, एवं भवान्तरक्रमेण सोऽग्निशर्मजीवः अकामनिर्जरायोगात् / एवमुक्तप्रकारेण पातकं पूर्वोक्तब्रह्महत्यादिपापम् अक्षिपत् // 22 // अथ तस्य पुनर्विजभवमाह-विप्र इति-- विमोऽभवत् पुनः सोऽपि कुजरावर्त्तपत्तने / वैराग्याद् विषयोद्विग्नस्ततस्तापसतां ललौ // 23 //