________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथाग्निशर्मप्रहारेण विद्युत्प्रभामृत्युमाह-त्यादीति इत्याघभिदधानां तां पूर्णगर्भा रुषाऽरुणः / स तेन लकुटेनाऽहन् सगर्भा सा यथाऽमृत // 14 // इत्याद्युक्तप्रकारमभिदधानां कथयन्ती पूर्णगर्भामासन्नप्रसवाम् अत्यशक्ता प्रहारासहिष्णुम् , तां स्वपत्नी विद्युत्प्रभां सतीमिति यावत् , रुषा क्रोधेनारुणः, रक्तवर्णः, अतिक्रुद्ध इत्यर्थः / सोऽग्निशर्मा तेन गोवधसाधनेन लकुटेन यष्टिकया अहन् हतवान् , यथा सा सगर्भा अमृत मृता गतासुर्जाता // 14 // अथ तस्य पितृमातृवधमाह-दुरिति दुःशापं ददतौ मातापितरौ तेन मारितौ / क्रोधान्धो यदि वा मर्त्यश्चण्डालाद न विशिष्यते // 15 // तेनाग्निशर्मणा दुःशापं दुर्वचनं ददतौ कथयन्तौ मातापितरौ मारितौ हतौ, ननु मातापितराववध्यावपि कथं मारिताविति चेत्तत्राह-यदि वा यतः क्रोधान्धः मर्त्यः जन्तुः चण्डालादतिक्रूरात्पुरुषविशेषान्न विशिष्यते भिवते, चाण्डाल एव जायते इति तस्य वध्यावध्यविवेको भ्रश्यति इति भावः // 15 // अथ तत्र नागरागमनमाह-श्रुत्वेति श्रुत्वा दुवृत्तमीदृशं नागराः सहसाऽगमन् / दृष्ट्वा च तादृशं कर्म धिक्कारमुखराननाः // 16 // ईदृक्षमुक्तप्रकारं दुर्वृत्तम् अग्निशमदुष्कृत्यं श्रुत्वा नागराः सहसा झटित्येवागमन् / तादशमुक्तप्रकारं कर्म. अग्निशर्मकृत्यं दृष्ट्वा च धिक्कारमुखराणि धिक्कारदानपराणि आननानि मुखानि येषां तादृशाः जाताः, धिगकुर्वन्नित्यर्थः // 16 // अथ तेषां धिक्कारप्रकारमेवाह-ब्रह्म इति ब्रह्मस्त्रीभ्रूणगोहत्यापातकानि चकार यत् / अप्रेक्ष्योऽयमवाच्योऽयं सर्वथा तेन कर्मणा // 17 // ब्रह्मणः स्वपितुर्द्विजस्य स्त्रियोः मातुः पत्न्याश्च भ्रणस्य उदरान्तर्वर्तिगर्भस्य गोश्च हत्या एव पातकानि यद्यतः चकार, अतः, तेन कर्मणा हेतुना अयं अप्रेक्ष्योऽनवलोक्यः, अयमग्नि शर्मा पातकी अवाच्यः अनाभाषणीयः. महापातकी हि न प्रेक्ष्यो वाच्यो वा भवतीति धर्मशाखानुशासनादिति भावः // 17 // अथ पौरान तत्कोपमाह-इत्यादीति इत्याद्यन्योऽन्यमालापं पौरेषु विदधत्स्वपि / तथैव दण्डमुद्यम्य सोऽधावत् कोपकम्पनः // 18 //