________________ 214 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। अपरेघुरेकदा तया चन्द्राभिधया धेन्वा स्तने किञ्चित्पीडितया सत्या सोऽग्निशर्मा स्वयमेवदुइन् अंहिप्रहारेण पादाघातेन ताडितः जाताघातः कृतः॥९॥ मथ तस्य कोपमाह-पारीति पारी पाणिस्थिता तेन भग्ना पेयूषसंभृता / घातेन स च दूनश्च कोपं पाप द्विजाधमः // 10 // तेन पादप्रहारेण कृत्वा पेयूषेण दुग्धेन संभृता पूर्णा पाणिस्थिता करावलम्बिता पारी दुग्धपात्रं भग्ना स्फुटिता 'त्रुटितेति भावः, स च द्विजाधमः हीनद्विजोऽग्निशर्मा घातेन धेनुपादाघातेन दूनः पीडितश्च कोपं प्राप चुक्रोध / साडितो हि सर्व एव कुप्यतीति भावः // 10 // ...मथ तस्य धेनुताडनमाह-उच्चैरिति उच्चैलकुटमुत्पाटय कुट्टयामास सोऽपि ताम् / तत्महारव्यथाऽऽक्रान्ता यथा सा न्यपतत् क्षितौ // 11 // सोऽग्निशर्माऽपि उच्चैः अत्यूवं, यथाऽधिको घातः स्यादिति भावः लकुट यष्टिविशेषमुत्पाट्योत्थाप्य तां धेनुं कुट्टयामास ताडयामास, यथा येन सा धेनुः तस्य लकुटस्य प्रहारख्यथया ताडनपीडया आक्रान्ताऽभिभूता सती क्षितौ पृथिव्यां न्यपतत् पतिता, एतेन घाततीव्रता सूचिता // 11 // भय तबधूक्तिमाह--किमिति किमेतदिति संभ्रान्ता तद्वधरेत्य तं जगौ / विना विशेषविज्ञानं पशूनां पशुतोच्यते // 12 // कि कुतो हेतोरेतद्धेनुपतनमिति सम्भ्रान्ता भयचकिता तस्याग्निशर्मणो वधूः विद्युत्प्रभा सत्याख्या वा एत्य जगौ, किमित्याह-पशूनां विशेषविज्ञानं विना विशेषज्ञानाभावात् पशुतोच्यते, शानाभाव एव पशुषु पशुतेति भावः // 12 // मनु तेन किमिति चेत्तत्राह-तदिति तत्सत्त्वमात्रसंपाप्त्यै जघान त्वामियं प्रिय ! / तत्सत्त्वमात्रसंपाप्त्यै त्वया किमियमाहता // 13 // प्रिय ! इयं धेनुः तस्य ज्ञानाभावस्य सत्त्वमात्रस्य सत्तायाः सम्प्राप्त्यै संप्राप्तिनिमित्तम् , ज्ञानाभावसत्त्वहेतुनेत्यर्थः, त्वामग्निशर्माणं जघान हतवती, ज्ञानसत्त्वे नैवं कुर्यादिति भावः त्वया ज्ञानिना च तत्सत्त्वमात्रसंप्राप्त्यै ज्ञानाभावलाभार्थम् , इयं गौः किमाहता ? कुतस्ताडिता, नैतधुक्तमित्यर्थः, तव गौस्ताडनं तवाज्ञानमेव प्रमाणयतीत्यनुचितमेतत्त्वया विदुषाऽपि समाचरितमिति भावः // 13 //