________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् कषायदूषणाय दृष्टान्तं प्रस्तौति-अज्ञानेति अज्ञानापहतस्वान्तः कषायान् यो निषेवते / इहामुत्र स दुःखी स्यादग्निशर्मा द्विजो यथा // 4 // यः पुरुषः अज्ञानेन अपहतस्वान्तः गलितविवेकः सन् कषायान् क्रोधादीन् निषेवते आश्रयति सोऽजितकषायत्वेन सकषायः पुरुषः इह अत्र लोकेऽमुत्र च दुःखी स्यात् , तत्र दृष्टान्तमाह-यथा अग्निशर्मा तदाख्यो द्विजो ब्राह्मणः कषायान्निषेव्य दुःख्यभूदित्यर्थः // 4 // अग्निशमकथामेवाह-अस्तीहेति अस्तीह भरतक्षेत्रे काशीदेशप्रकाशकृत / शस्यौधैरभिरामश्रीमः श्रीपुण्ड्रवर्धनः // 5 // इहास्मिन् भरतक्षेत्रे काशीदेशस्य काशीप्रान्तस्य प्रकाशकृत् ख्यापकः शस्योधैः शस्यसम्पद्भिः अभिरामश्रीः मनोहरा श्रीरशोभा यस्य तादृशः पुण्डूवर्धनः तदाख्यः ग्रामोऽस्ति // 5 // यज्ञेति यज्ञदत्ताभिधस्तत्र विमो यज्ञक्रियापरः / सोमास्याऽभिधया सोमा समजायत तत्प्रिया // 6 // तत्र पुण्डूवर्धनग्रामे यज्ञक्रियापरः यज्ञानुष्ठानतत्परः यज्ञदत्ताभिधः विप्रः ब्राह्मणः सोमास्या चन्द्रमुखी अभिधया नाम्ना सोमा, सोमानाम्नीत्यर्थः, तस्य यज्ञदत्तस्य प्रिया भार्या च समजायताभूत् // 6 // अग्निशर्माणं वर्णयति अग्निशर्मा तयोः पुत्रः कलाकौशलपेशलः। विद्युत्मभां स सत्याख्यां परिणिन्ये पितुर्गिरा // 7 // .. तयोः सोमायज्ञदत्तयोः पुत्रः कलासु कौशलेन नैपुण्येन कृत्वा पेशलः प्रसिद्धः उत्तमश्च, विद्वद्वर इति यावत् , अग्निशर्मा तदाख्यः, सोऽग्निशर्मा पितुः यज्ञदत्तस्य गिरा वाण्या, आज्ञयेत्यर्थः, विद्युतः प्रभेव प्रभा कान्तिर्यस्यास्तां तादृशीं सुन्दरी सत्याख्यां सतीनाम्नी कन्यां परिणिन्ये // 7 // अथ तस्य धेनुदोहनमाह-यशदत्तेति यज्ञदत्तस्य तस्यास्ति धेनुश्चन्द्राऽभिधा गृहे / कुण्डोध्नीमग्निशर्मा तां दोग्धि प्रत्यहमेव सः // 8 // सस्य यज्ञदत्तस्य गृहे चन्द्राऽभिधा चन्द्रानाम्नी धेनु¥रस्ति, तां कुण्डोनी कुण्डमिवोधो यस्यास्तां घटोध्नीम् सोऽग्निशर्मा एव प्रत्यहं दोग्धि // 8 // अथ तस्य धेन्वा अहिप्रहारमाह-अपरेति अपरेधुस्तया धेन्वा किञ्चत् पीडितया स्तने / स्वयमेव दुहन्नहिपहारेण स ताडितः // 9 //