________________ अथ सप्तदशः सर्गः मथ सर्गादो टीकाकारमांगलिकश्लोकस्तुतिमाह सर्वे वादा यदीयागमगतनयतस्संमृता भिन्नमार्गा, द्रव्यार्थः पर्यवार्थों नयविभजनतस्संग्रहः सूक्ष्मगत्या / आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्यां सर्गे तु सप्तोत्तरदशपमिते दर्शनस्सन्तनोति // 1 // तत्र सर्गादौ चरितनायकदेशनाया एव प्रस्तुतत्वात्तस्या एव स्तुतिमाह-वाणीति वाणी श्रीशान्तिनाथस्य भवतां भवताद् मुदे / चतुर्गतिमहातापशमनाऽमृतदीषिका // 1 // चतुर्गतयः देवनारकमनुष्यतिर्यग्रूपा तत्र तन्निमित्तं वा यो महातापः तस्य जन्मजरामरणदिरूपस्य शमने निवारणे अमृतदीर्घिकेव शाश्वताप्रतिपात्यानन्दमयमुक्तिप्रदत्त्वेनामरत्वप्रदसुधासर इव श्रीशान्तिनाथस्य वाणी देशना वाक् भवतां श्रोतृणां काव्यपाठकानाश्च मुदे हर्षाय भवतात् // 1 // कषायदोषमाह-कषाया इति कषाया ज्ञानमार्तण्डतिरोधाननवाम्बुदाः / / चत्वारः क्रोधमानाद्या दुर्गतेः सहचारिणः // 2 // कोषमानायाः क्रोधमानमायालोभरूपाः चत्वारः कषायाः ज्ञानमेव प्रकाश्यप्रकाशकत्वान्मासेण्डः सूर्यः तस्य तिरोधाने आवरणे नवाम्बुदाः नवीनजलधराः 'मेघा इति भावः तथा,दुर्गतेः नारकादिगतः तद्गतनारकजीवैस्सह सहचारिणः सहवासिनः तत्र गमने सहकारिणश्च / मेघो यथा सूर्य तिरोदधाति गमनं च दुःशकं करोति, तथा कषाया अपि ज्ञानं तिरोदधति सुगतिगमनं च प्रतिबध्नन्ति / रूपकम् // 2 // कषायभाषाभाषयोविशेषमाह-कषायैरिति-- कषायैः सह चेत् योगस्तत् तपोनियमैरलम् / / तैः समं यदि नो योगस्तत् तयोनियमैरलम् // 3 // कषायैः क्रुधादिभिः सह योगः सम्बन्धश्चेत्तर्हि तपोनियमैः व्रतेन्द्रियनिग्रहादिभिरलं कृतम्, ते न स्वफलदाने समर्था भवन्ति, कषायाणां तत्प्रतिबन्धकत्वादिति भावः, तैः कषायैः समं सह यदि नो योगस्तर्हि तपोनियमैरलं कृतम्, कषायनिरोधरूपतत्फलसिद्धेरिति भावः, // 3 //