________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __एषिका सपत्नी कनकवती च यावज्जीवति, तावत्पुनः कार्मणं दुरदृष्टं विजयते, एतस्यां जीवन्त्यां सत्यामस्माकं दौर्भाग्यमेवावशिष्यते इत्यर्थः / यद्वा, कार्मणम् कर्मकराणां भृत्यानां समूहः, विजयते, अस्माकमेव सपल्या कार्येषु नियुक्तत्वात्तेषां कार्यकरणाभावादुत्कृष्टं वर्तते इत्यर्थः, तस्मिन् कार्मणे जीवति अस्माकं गुणचन्द्रपत्नीनां ध्रुवं निश्चयेन भर्तृसङ्गमसुखं नास्ति, भर्तुर्गुणचन्द्रस्य सपत्नीवशत्वादिति भावः, तेन भर्तृसङ्गमेन विना इदं वर्तमानं जीवितं रूपं सौन्दर्यमपि व्यर्थ निष्प्रयोजनमिति विचार्य ताः गुणचन्द्रस्त्रियः तस्यै सपन्यै कनकवत्यै वेडं विषमदीदपन् केनचित्कृत्वा दापयति स्म, अथ विषदानानन्तरं सा कनकवती रोद्रेणाशुभेन ध्यानेन कृत्वा मृता, मरणं प्रापेत्यर्थः // 30 // भथ तस्याः पुनर्भवमाह-संजझे इतिसंजज्ञे दुरितैश्चतुर्थनरके सा नारकी प्राक्कृतै रुवृत्याऽपि ततो भ्रमिष्यति भवेऽमुत्राऽपि दुःखाकुले / मत्वैवं विषयानुषक्तमनसां दुःखं च सार्वत्रिकं तत् त्वं श्रीकुरुचन्द्र ! तान् स्ववशयन् कल्याणमालां श्रय // 301 // ___सा कनकवती प्राक्कृतैः पूर्वं विहितैः दुरतैः पापैर्हेतुभिः चतुर्थनरके नारकी संजज्ञे जाता, ततः नरकादुवृत्त्य निर्गत्यापि अमुत्र परस्मिन्नपि दुःखाकुले भवे भ्रमिष्यति दुःखाकुलं जन्म प्राप्स्यति, श्रीकुरुचद्र ! एवमुक्तप्रकारेण विषयानुसक्तमनसां कामादिविषयवद्धचित्तानां च सार्वत्रिकं इहलोके परलोके च दुःखं मत्वा विज्ञाय त्वं तत्तस्माद्धेतोः तान् विषयान् स्ववशयन् स्वाधीनान् कुर्वाणः, न तु तद्वशं यायाः, एवञ्च कृते सति कल्याणमालां शुभपरम्परां श्रय आप्नुहि // 301 // आसीच्छ्रीगुरुगच्छमोलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिमुगुरुश्चारित्रभाजां गुरुः / तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महा काव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत् षोडशः // 302 // व्याख्यातपूर्वोऽयं श्लोको निगदसिद्ध इति न व्याख्यायते // पद्ये पद्ये विशिष्टाचरणविषयकोद्बोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थकृद्भक्तिजाता। सर्गे व्याख्या प्रपूर्णा मितिलयलसिता नेमिसूरीशशिष्याचार्यश्रीदर्शनात्तात्मभवनकलिता पोडशे मोददाऽस्तु // 1 // इति श्रीशान्तिनाथचरिते पोडशसर्गः समाप्तः /