________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः कृतवानितित्यादिरूपैः विचारैः किम् ? न किमपीष्टं सिद्धयत्येमिरित्यर्थः / अत्रेरितीदमो बहुवचने तृतीयायाः कथं प्रयुक्तमिति ध्येयम् / एवमुक्तप्रकारेण ध्यावा विचार्य दुष्टाशया दुर्वृत्ता सा कनकवती मातुलं नृपं परिवञ्च्य छलयित्वा तत्क्षणात् गत्वा रुचा कात्या कृत्वा भतिचन्द्रम् चन्द्रातिशायिनं गुणचन्द्रमेव दयितीचक्रे प्रियमकरोत् // 297 // .. . भय गुणचन्द्रस्त्रीणां विरोधमाह-तदिति'. तदासक्तस्वान्तं स्वपतिमवलोक्य प्रियतमा स्तदीया बिभ्राणाः प्रचुरतरखेदं च हृदये / मिलित्वा निःशेषाः समवकृतदुःखैकविरहा, _रहोदेशेऽन्योऽन्यं प्रणिजगदुरेतत् स्फुटतरम् // 298 // तदीयाः गुणचन्द्रस्य प्रियतमाः स्त्रियः स्वपति गुणचन्द्रं तस्यां कनकवत्यामासक्तस्वान्तमनुरक्तचित्तमवलोक्य हृदये प्रचुरतरं सातिशयं खेदं तापं बिभ्राणाः धारयन्त्यः - सत्यः समवधृतः दुःखमेकं प्रधानं यस्मिन्नेवभूतो विरहः पत्युः स्वोपेक्षारूपो याभिस्ताः तादृश्यः निशेषाः सकला एव रहोदेशे एकान्तप्रदेशे मिलित्वा सङ्गत्यान्योऽन्यं परस्परं स्फुटतरम् व्यक्तमेतद्वक्ष्यमाणं प्रणिजगदुः ब्रुवन्ति स्म // 298 // मथ तासां परस्परोक्तिमेवाह-ज्वालेतिज्वालाजालकरालपावकमहाकुण्डे प्रवेशो वरं, कल्लोलस्फुटनक्रचक्रविषमे पातः पयोधौ वरम् / ..युद्धाऽऽशीविषभीष्मवक्त्रकुहरे क्षिप्तः करो वा वरं, .. .. दुःखं मानविनाशकारि न परं नार्याः सपत्नीभवम् // 299 // - ज्वालानां जालैः समूहैः कराले भयङ्करे पावकस्याग्नेः महाकुण्डे प्रवेशः वरमौषत्प्रियम् , सथा, कल्लोलैः महद्भिस्तरङ्गैः स्फुटैः दृश्यमानैः नक्रचक्रः ग्राहवृन्दैः विषमे गहने भयङ्करे वा पयोधौ. पातः झम्पापातः वरम् , “महत्सूल्लोलकल्लोलौ" "ग्राहोऽवहारो नक्रस्तु" इति चामरः तथा ऋद्धस्याशीविषस्य सर्पस्य भीष्मे भयानके वक्त्रे मुखे एव कहरे विवरे करः पाणिः क्षिप्तः न्यस्तो वा वरम् , “दारुणं भीष्मं घोरं भीमं भयानकम्” “अथ कुहरं शुषिरं विवरं बिलमि"ति चामरः / ननु तर्हि किं न वरमिति चेत्तत्राह-परं किन्तु नार्याः मानस्य विनाशकारि सपत्नीभवं दुःखं न, वरमितिशेषः / पूर्वोक्तदुःखानां मानविनाशकारित्वाभावादिति सहेतुको व्यतिरेकाऽलङ्कारः // 299 // अथ कनकवती मृत्युमाह-यावदिति यावज्जीवति चैषिका विजयते तावत् पुनः कार्मणं, ... तस्मिन् जीवति भर्तृसङ्गममुखं नास्माकमस्ति ध्रुवम् / रूपं तेन विनाऽपि जीवितमिदं व्यथं विचार्येति ता स्तस्यै क्ष्वेडमदीदपन्नथ मृता ध्यानेन रौद्रेण सा // 30 //