________________ मा० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्कृतगुणवर्मशोधनाद्याह-प्रोच्येति मोच्येति प्रहितैनरैः स परितो, व्यालोकि नालोकितः कुत्राऽपि भतिचत्वरं प्रतिपुरं, संशोधयद्भिर्भशम् / आगत्याऽपि निवेदितं नरपतेस्तेनाऽपि ते शिक्षिता ____ जामेय्याः पुरतो न केनचिदिदं, वाच्यं न वाच्यं ततः // 295 // इत्युक्तप्रकारेण प्रोच्याश्वास्य, कनकवतीमित्याल्लभ्यते, स कनकवतीमातुलः प्रहितैः प्रेष्यैः नरैः प्रेषितैः सद्भिरपि परितः सर्वतो भृशं प्रतिचत्वरं प्रतिपुरं संशोधयद्भिरन्वेषयद्भिः व्यालोकि अन्वेषणं गुणवर्माणो कारयति स्म, किन्तु नालोकितः गुणवर्मा कुत्रापि न दृष्टः / तथा आगत्य प्रतिनिवृत्त्य नरपतेः कनकवतीमातुलस्य निवेदितमस्मामिः स गुणवर्मा क्वापि न दृष्ट इत्येवं विज्ञापितमपि, ततस्तत्पश्चात् तेन कनकवतीमातुलेन ते भृत्याः शोधका अपि शिक्षिताः उपदिष्टाः, किमित्याह-जामेय्याः भागिनेय्याः पुरतः केनचित्केनापि न वाच्यमकथनीयम् , दुःखोद्बोधकत्वादिति भावः न वाच्यं कथनीयम् // 295 // अथ कनकवतीचिन्तामाह-सा इति-- साऽप्याध्यायदयं ध्रुवं मम तकद्, दुश्चेष्टितं जज्ञिवां- स्तेनैवाहमभूवमस्य मनसो, वैरङ्गिकी निश्चितम् / पाप प्रागपि सोऽपि सद्गुरुगिरा, संसारवैराग्यकं संप्रत्येष विशेषतो मम पुन-दुर्वृत्तसंप्रेक्षणात् // 296 // सा कनकवत्यपि अध्यायत् चिन्तयामास, किमित्याह-मम कनकवत्याः तकन्पुरावृत्तं दुश्चेष्टितम् दुष्कृत्यम् अयं मम पतिर्गुणवर्मा जज्ञिवान् ज्ञातवान् ध्रुवं निश्चितमेतत् , तेन दुश्चेष्टितेन पुराजातेनैव हेतुना अहं कनकवती निश्चितमस्य गुणवर्मणो मनसो वैरङ्गिकी विरसतापादिका स्वस्मिन्नप्रीतिसाधिकेति यावत् , अभूवम् / स गुणवर्माऽपि प्राक् पुरा अपि सद्गुरोः गुणरत्नसूरेः गिरा उपदेशतः संसारे वैराग्यकं विरक्ततां प्राप, एष गुणवर्मा सम्प्रति मम कनकवत्याः दुर्वृत्तस्यान्यत्रासक्तिरूपस्य प्रेक्षणात्कृत्वा पुनः, द्विगुणं वैराग्यं प्राप्तवानित्यर्थः // 296 // अथ कनकवत्याः गुणचन्द्रसमीपगमनमाह-तदितितद् नूनं विदुषाऽमुनोत्तममुनेरादीयते स्म व्रतं स्वार्थ तद् वितनोम्यहं किमधुना व्यथै विकल्पैरिमैः / ध्यात्वैवं परिवञ्च्य मातुलनृपं दुष्टाऽऽशया तत्क्षणात् . गत्वा सा गुणचन्द्रमेव दयिती-चक्रेति चन्द्रं रुचा // 297 // तत्ततो वैराग्यावेतोः अमुना विदुषा धीमता गुणवर्मणा नूनं ध्रुवमुत्तमान्मुनेः गुणरत्नसूरेः सकाशात् व्रतं दीक्षाम् आदीयते स्म गृहीता स्यात् / तत्ततो हेतोः अहं कनकवती स्वार्थ स्वेष्टं वितनोमि साधयामि, अधुना इमैः एभिः व्यर्थैः फलाभावान्निरर्थकैः विकल्पैः गुणवर्मा कि शा० 27