________________ 208 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / ____ ततः त्रिदिवतः स्वर्गात् च्युत्वा शुचिना पवित्रेणोत्तमेन कुलेन अन्वयेन वंशेन च शीलेन च शालते शोभते इत्येवं शुचिकुलान्वयशीलशालि मानुष्यकं मनुष्यस्य जन्म उपलभ्य दीक्षां प्रपद्य तपांसि परितप्य विधाय स गुणवर्मा नित्यं विज्ञानं केवलज्ञानमाप्य प्राप्य परमं सर्वोकृष्टं पदम् स्थानम् , मुक्तिपदमित्यर्थः, आप्स्यते // 292 // अथ कनकवतीवृत्तमाह-इतश्चेतिइतश्च गतनिद्रया कनकवत्यभिख्याभृता तया स न समीक्षितः पतिरधिश्रितव्याजया / व्यधायि परिदेवनं, स विनिशम्य यद् मातुल: ससंभ्रममुपागतः प्रवदति स्म चैतद् वचः // 293 // इतोऽस्मिन् पक्षे च गतनिद्रया सुप्तोत्थितया तया कनकवत्यभिख्यां कनकवतीत्यभिधां बिभर्ति तया अधिश्रितव्याजया कपटाशयया स पतिः गुणवर्मा न समीक्षितः, शयने इति शेषः / अतः परिदेवनं विलापो व्यधायि चक्रे / यत्परिदेवनं विनिशम्य स कनकवत्या मातुल: ससम्भ्रमं सत्वरं समुपागतः सन् स तद्वक्ष्यमाणं वचः प्रवदति कथयति स्म च // 293 // अथ तन्मातुलस्य कनकवत्याश्वासनमाह-मेति-- मा रोदीस्तनये ! गतः स भविता, कुत्राऽपि कार्यान्तरे, जामाता किल तस्य दैवमपि ना-निष्टं विधातुं क्षमम् / मासनम् / आप्तैरेव नरैविंशोध्य वसुधा-मानाययिष्यामि तं, तत् स्वस्था भव पुण्यमाचर परं, दुःखं न धायें त्वया // 294 // तनये ! पुत्रि ! वात्सल्याधिक्यादित्थं सम्बोधनमिति न भागिनेय्यां तथोक्तिरसङ्गतेति ध्येयम् मा न रोदीः अश्रूणि विमुच्च, स जामाता त्वत्पतिः कुत्रापि स्थाने कार्यान्तरे कार्यविशेषनिमित्तम् , गतो भविता गतः स्यात् , नन्वज्ञातस्थाने अनिष्टस्यापि सम्भवः इति चेत्तत्राह तस्य त्वत्पतेर्गुणवर्मणः, किलेत्यलीके, दैवमदृष्टमपि अनिष्टं विधातुं न क्षमम् न समर्थम् , कार्यमात्रकारणेऽनिष्टं विधातुमप्रभवत्यन्यस्य का चर्चेति भावः ननु स चेत्स्वयं नागच्छेदिति चेत्तत्राह-आप्तैः विश्वासपात्रैः स्वैः नरैः भृत्यादिपुरुषैः कृत्वा वसुधामखिलां पृथिवीं विशोध्याविष्य तं गुणवर्माणमानाययिष्याम्येव, स्वयमनागच्छन्तमपि बलादप्यानाययिष्यामीत्यर्थः / तत्तस्मादुक्ताश्वासनाद्धेतोः स्वस्था व्याकुलताविमुक्ता भव, पुण्यमाचर, तस्याभिलषितसाधकत्वेऽधिकारादितिभावः परं किन्तु त्वया कनकवत्या दुःखं पतिवियोगजन्यतापं न धार्य कार्य, दीति शेषः // 29 //