________________ Howereranavr wwwww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 207 मया गुणवर्गणा यस्याः कनकवत्याः प्रेम्णः प्रतिबन्धतः प्रतिबन्धकतया सुगुरोः गुणरत्नसूरेः सङ्गः विमुक्तः व्यक्तः, ततो दीक्षां नाग्रहिषम् , साऽपि विवेकविकला औचित्यविचाररहिता सती इदृशी मां विहाया यत्रासक्ता अभवत् , वेधसो ब्रह्मणश्चेष्टितं हा ! खेदकारि, निन्दितं चेत्यर्थः / अथ तन्मतिमाह-तदापि तथापि, एतस्याः कनकवत्याः मातुलस्य मातृभ्रातुः पत्तनं नगरं नेदिष्ठमतिसमीपस्थमाकर्यते श्रूयते तत्र तन्मातुलनगरे पुराऽऽदौ एतां कनकवती प्रविमुच्य स्थापयित्वा त्यक्त्वा वा, स्वकीयं जन्म सफलं कुर्वे गुरुसङ्गमादिना साधयामीत्यर्थः // 289 // अथ गुणवर्मणः कनकवतीमातुलपुरगमनमाह-समितिसंचिन्त्येत्यधिगम्य तत् पुरमसौ, वध्वा तयाऽमा क्रमात् तस्या मातुलमन्दिरान्तरविशद्, दौवारिकाऽऽवेदितः / आनन्दं कलयन् स चापि विदधे, संलाप्य जाम्यङ्गजा जामात्रोरनयोर्महेन महनं, रैसोधपट्टांशुकैः // 290 // इत्युक्तप्रकारेण सञ्चिन्त्य विचार्य असौ गुणवर्मा तया वध्वा भार्यया कनकवत्या अमा सह तत्पुरम् कनकवतीमातुलपुरमधिगम्य गत्वा क्रमाद् दौवारिकेण द्वारपालेन आवेदितः निवेदितः सन् तस्याः कनकवत्याः मातुलस्य मन्दिरस्य गृहस्यान्तरविशत्प्रविष्टवान् स :कनकवतीमातुलश्वापि संलाप्याभाष्यानन्दं कलयन् प्राप्नुवन् जाम्यङ्गजायाः भगिनीपुत्र्याः जामातुस्तत्पतेश्च कनकवतीगुणवर्मणोः महेनोत्सवपूर्वकं राभिः द्रव्यैः कनकादिभिः सौधैः प्रासादैः पट्टांशुकैः पट्ट वस्त्रैश्च महनं सम्माननं विदधे / / 290 // अथ गुणवर्मणो दीक्षादिप्राप्तिमाह-यामिन्यामिति यामिन्यामपरेधुरात्मदयितां, सुप्तां विमुच्यैव तां - गत्वा सद्गुरुसन्निधौ शुभमना, दीक्षां समादाय सः / चारित्रं प्रतिपाल्य चारु निरती-चारं निजायुःक्षये संपाप्याऽनशनं विपद्य सपदि, पापत् पदं स्वःसदाम् // 291 // अपरेचुरेकदा शुभे धर्मकार्ये मनो यस्य स चारित्रेच्छुः स गुणवर्मा यामिन्यां रात्रौ तामात्मनो दयितां प्रियां कनकवती सुप्तां विमुच्य सद्गुरोः सन्निधौ गत्वा दीक्षां समादाय निरतीचारं शुद्धाचारं चारु चारित्रं प्रतिपाल्य निजस्यायुषः क्षये चरमसमये अनशनं सम्प्राप्य कृत्वा विपद्य मृत्वा सपदि शीघ्रमेव स्वःसदां देवानां पदं स्थान प्रापत् // 291 // अथ गुणवर्मणो भविष्यमुक्तिप्राप्तिमाह-व्युत्वेतिच्युत्वा ततस्त्रिदिवतोऽप्युपलभ्य जन्म, मानुष्यकं शुचिकुलान्वयशीलशालि / दीक्षां प्रपद्य परितप्य तपांसि नित्यं, विज्ञानमाप्य परमं पदमाप्स्यते सः // 292 //