________________ 206 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / सौदामन्यातिलोलं प्रविरचितमिद कामिनीनां मनः किं ? सन्ध्यारागेण किं वा सुरपतिधनुषा स्वित् किमेतद् विधात्रा // 287 // इति पूर्वोक्तमुक्त्वा तत्र तस्मिन् पुरुषे याते गते सति नरपतितनयः राजपुत्रो गुणवर्मा चित्तवृत्त्या मनसा इति दध्यौ चिन्तयामास, इतीति किमित्याह--अहो इति सखेदाश्चर्ये, केचिदपि लीलावतीनां नारीणां प्रविलसितं चरित्रं वेदितुं ज्ञातुं नैव शक्ताः समर्थाः / स्त्रियः चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्य" इत्युक्तेरिति भावः नारीचित्तचाञ्चल्यमेवोपमीयते विधात्रा ब्रह्मणा सौदामन्या विद्युता अतिचपलया कृत्वा इदं कामिनीनां स्त्रीणां मनः अतिलोलमतिचञ्चलं प्रविरचितं निर्मितं किम् ? कथमन्यथा क्षणादेवैकतोऽन्यत्र यातीति भावः, कारणगुणानां कार्यगुणारम्भकत्वात्तथैव कार्यात्कारणानुमानात् चेत्थमेव सम्भाव्यते, वस्त्वन्तरेणापि चाञ्चल्यं सम्भावयति किम्वा अथवा-सन्ध्यारागेणाल्पकालवृत्तिना सुरधनुषा इन्द्रधनुषा स्वल्पकालदृश्यमानेन, स्विदिति वितर्के, एतत्स्त्रीमनः किं, निर्मितम् ? चाञ्चल्यस्यान्यथाऽनुपपतेरिति भावः / उत्प्रेक्षाऽलङ्कारः // 287 // स्त्रीमनो नियन्त्रणं दुष्करमित्याह-मन्त्र इतिमन्त्रः कोऽपि स नास्ति साध्यविषयो, नाप्यौषधं तादृशं, यन्त्रं किचन नैव तन्त्रमपि तद्, नैवास्ति लोकत्रये / वाताऽऽन्दोलितसौधकेतुवसन-प्रान्ताञ्चलाच्चञ्चलं वामानां मन एव येन नियतं, केनाऽपि तद् यन्त्र्यते // 28 // लोकत्रयेऽपि स प्रसिद्धः साध्यविषयः जपादिना साधनीयः तादृशः कोऽपि मन्त्रो देवाधिष्ठिताक्षररूपः नास्ति, तादृशं विशिष्टशक्तिमदौषधमपि नास्ति, किञ्चन यन्त्रं यन्त्रशास्त्रप्रसिद्धम् नैव किञ्चन किमपि, तादृशम् , तत्तादृशं तन्त्रं तन्त्रशास्त्रप्रसिद्धं तन्त्रमपि नैवास्ति, येन मन्त्रादिना केनापि साधनेन कृत्वा वातेन पवनेन कृत्वा आन्दोलिताद् धुताद् सौधकेतोः प्रासा दध्वजस्य वसनप्रान्ताद्वसनान्तादेवाञ्चलात् तदपेक्षयाऽपि चञ्चलं तत्प्रसिद्धं वामानाम् नारीणां मनः नियतं निश्चितरूपेण यन्त्र्यते स्थिरीक्रियते एव, उपायासाध्यं स्त्रीमन इत्यर्थः // 288 // सम्प्रति गुणवर्मनिर्वेदमाह-यदितियत्प्रेमप्रतिबन्धतोऽपि सुगुरोः, सङ्गो विमुक्तो मया, साऽपीदृश्यभवद् विवेकविकला, हा ! वेधसश्चेष्टितम् / एतन्मातुलपत्तनं तदपि तन्नेदिष्ठमाकर्ण्यते, तत्रैतां प्रविमुच्य जन्म सफलं, कुर्वे स्वकीयं पुरा // 289 //