________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 205 तदागमनमेव समर्थयति क्रीडारसः रमणाग्रहः तस्य प्रचयेन वृद्धया संचितमानसानी सम्भृतचित्तानाम् क्रीडनोत्सुकानामित्यर्थः कुमारकाणां क्वचन कुत्राप्येकत्र स्थाने स्थितिः स्थिरतया अवस्थानं नैव दृष्टा, अतोऽत्रागत इत्यर्थः // 283 // अथ गुणवर्मकृतोत्तरमाह-तदिति--- तदनु स गुणवर्मा व्याजहृद् व्याजहार, भवनमधिगतेष्टः प्राप विध्वस्ततापः। पुनरपि स बभाषे तस्य सा सङ्गता किं, कुसुमविशिखकान्तारूपसंस्पर्धिरूपा // 284 तदनु तत्पश्चात् स गुणवर्मा व्याजहृद् सकपटं व्याजहारोक्तवान् , किमित्याह अधिगतेष्टः प्राप्ताभिलषितः अत एव, विध्वस्ततापः नष्टदुःखः स त्वदुक्तः कुमारः गुणचन्द्रः भवनं प्राप गतः पुनरपि स पुरुषः बभाषे, किमित्याह तस्य गुणचन्द्रस्य कुमारस्य कुसुमविशिखः पुष्पबाणः कामः तस्य कान्तायाः प्रियाया रूपेण संस्पर्धि स्पर्धायुक्तं रूपं यस्याः सा तादृशी सा नारी सङ्गता मिलिता किमिति प्रश्ने, तद्वदेत्यर्थः // 284 // अथ कुमारकृतोत्तरमाह-अवददिति-- अवददिति कुमारः केवलं सङ्गता नो, अगमदसमरागा तेन सा सार्धमेव / समभवदतिवेलं भद्र ! भद्रं तदेतद्, यदियमुदितभाग्या सङ्गता तेन साकम् // 285 // कुमारः गुणवर्मा इत्यवदत् , इतीति किमित्याह-सङ्गता मिलिता केवलं नो न केवलं मिलिता, अपितु असमरागा अनुपमप्रेमवती सा नारी तेन गुणचन्द्रकुमारेण सार्धमेवागमत् , तच्छृत्वा पुरुषोल्लासमाह-भद्र ! तदेतत्तेन सार्धं तस्या गमनमतिवेलमत्यन्तं भद्रं सुष्टु समभवत् तेन गुणचन्द्रकुमारेण साकम् सह उदितभाग्या भाग्यवती, तेन सह विशिष्टसुखप्राप्तेस्तयोः परस्परमनुरूपत्वाच्चेति भावः, इयम् प्रस्तुता नारी सङ्गता कृतसङ्गा जाता // 285 / / प्रेमसत्त्वं तयोराह--यदिति यदर्शने प्रथम एव तयोरतुल्यः, प्रेमा स कोऽप्युदभवद् वचनातिगोऽत्र / जन्मान्तरानुभवसंभव एव यद्वा, स्त्रीपुंसयोः प्रभवति प्रियताऽतिरेकः // 28 // यत्प्रथमे दर्शने एव तयोः गुणचन्द्रकुमारप्रस्तुतनायोः अतुल्योऽनुपमः स कोऽपि वचनातिगोऽनिर्वचनीयः प्रेमा प्रेम उदभवत् प्रकटितः, ननु प्रथमदर्शन एव कथं प्रेमा जात इति चेत्तत्राह- यद्वा यतः स्त्रीपुंसयोः जन्मान्तरस्यानुभवात्संभवो यस्य तादृशः पूर्वजन्मकृतप्रेमसम्बन्धजः एव प्रियतायाः प्रेम्णोऽतिरेकोऽतिशयः प्रभवति जायते, नान्यथेति भावः // 286 / / अथ कुमारवितर्कमाह--इतीति-- इत्युक्त्वा तत्र याते नरपतितनयश्चित्तवृत्त्येति दध्यौ, केचिल्लीलावतीनां प्रविलसितमहो! वेदितुं नैव शक्ताः /