SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 204 श्रीशान्तिनाथमहाकाव्यम् षोडशः र्गः / अथ तस्य वैलक्याह-दम्पत्योरितिदम्पत्योरतिरागसागररस-प्रोन्मग्नमानात्मनोः, प्रेमाऽऽधिक्यसमन्वयेऽपि चटुता, नैवौचितीमञ्चति / मत्वैवं तदुपान्ततः स च समु-स्थायाऽवनीन्द्रात्मजः, पश्यन् विष्वगयं वनं तरुचितं केनाऽपि पुंसोदितः // 280 // अतिरागः उत्कृष्टः प्रेमा एव सागररसः समुद्रवारि तत्र प्रोन्मग्नः लीनः मानः परिमाणं ययोस्तादृशात्मनोः सर्वथा मग्नयोरिति यावत् तादृशोर्दम्पत्योः जायापत्योः प्रेमाधिक्यस्य सातिशयप्रेम्णः समन्वयेऽनुवृत्तावपि सति चटुता मिथ्याऽभिकथनम् औचिती युक्ततां नैवाञ्चति प्राप्नोति रागिणोनिश्छलव्यवहारौचित्यमिति भावः एवमित्थं मत्वा निश्चित्य सोऽवनीन्द्रात्मजः अयं गुणवर्मा तस्याः कनकवत्या उपान्ततः समीपादुत्थाय च विष्वक् समान्तात्तरुभिश्चित्तं व्याप्त वनं पश्यन्. केनाऽप्यलक्षितेन पुंसा उदितः कथितः // 280 // किं कथित इत्यपेक्षायामाह-श्रीमदिति-- श्रीमत्कुमार ! गुणचन्द्रकुमारसिंहः, क्रीडन् वने किमधुनाऽपि स विद्यतेऽत्र ! / प्रत्याह तं स च स कोनु कुमारसिंहो, भद्र ! त्वया शुभधिया परिपृच्छयते यः॥२८१॥ श्रीमत्कुमार ! गुणवर्मन् ! स प्रसिद्धः गुणचन्द्रः तदाख्यः कुमारसिंहः कुमारश्रेष्ठः अधुना साम्प्रतमपि अत्रास्मिन् वने क्रीडन् रममाणो विद्यते किमिति प्रश्ने स गुणवर्मा च तं पुरुषं प्रत्याह नु इति वितर्के, भद्र ! स त्वदुक्तः कुमारसिंहः कः यः त्वया शुभधिया सुमतिना परिपृच्छ्यते ? // 281 // अथ तत्पुरुषकृतोत्तरमाह-व्याचष्टेति-- व्याचष्ट सोऽत्र नगरे नगराजसार, ईशानचन्द्र इति भूमिपतिबभूव / तन्नन्दनः पृथुमतिर्गुणचन्द्रनामा, कामाऽऽकृतिविजितधामनिधिः स्वधाम्ना॥२८२॥ स प्रच्छकः पुरुषो व्याचष्ट कथयामास किमित्याह-अत्रास्मिन्नगरे नगराजसारः पर्वतेन्द्रतुल्य सत्त्वः ईशानचन्द्र इत्याख्यः भूमिपतिर्बभूव, तस्येशानचन्द्रस्य नन्दनस्तनयः पृथुमतिः मतिमान् कामाकृतिः कामदेवतुल्याकृतिः स्वधाम्ना स्वतेजसा विजितो धामनिधिश्चन्द्रो येन तादृशः गुणचन्द्रनामा, स कुमार इति सम्बध्यते // 282 // ननु स क्वासीद्यत् त्वयैवं पृच्छयते इति चेत्तत्राह-प्रस्थाप्येति-- प्रस्थाप्य कुत्रचन कर्मणि मामितोऽत्रो-द्याने समैत् स परिमेयपदातिपार्श्वः / क्रीडारसप्रचयसंचितमानसानां, दृष्टा स्थितिः क्वचन नैव कुमारकाणाम् // 283 // कुत्रचन कर्मणि किमपि कार्यार्थ मामितोऽस्मात् स्थानात्प्रस्थाप्य प्रेष्य अत्रास्मिन्नुद्याने परिमेयः अल्पः पदातिः पत्तिः पार्श्वे यस्य स तादृशः अल्पबलसमन्वितः स गुणचन्द्रः समैदागतवान्
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy