________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 203 तत्ततः मां गुणवर्माणं स्वपतिं वीक्ष्य यदि इयं कनकवती आकुलमनाः व्याकुलाः संपत्स्यते भविष्यति तत्तर्हि ध्रुवं निश्चयेन एतकां कनकवती तीत्र उत्कटो य और्वानलः वडवानलः अतितापप्रदत्वात्स इव तीत्रौर्वानलवलत् , "और्वस्तु वाडवो वडवानल'' इत्यमरः मम गुणवर्मणो विरह एव नत्वन्यः, संतापयति पीडयति, पुनरिति विशेषान्तरे, तदेवाह-यदि मां गुणवर्माणमागच्छन्तमवेक्ष्य स्वयमवहित्थामाकारगुप्ति “अवहित्थाऽऽकारगुप्ति"रित्यमरः कर्ता विधाता, स्वाकारगोपनं करिष्यतीत्यर्थः / तत्तहि, इयं नूनं क्वापि कस्मिन्नपि नरान्तरे पुरुषान्तरविषये आसक्तिं रागमालम्बते आश्रयति // 277 // अथ गुणवर्मणस्तज्जिज्ञासामाह-ध्यात्वैवमिति--- ध्यात्वैवं दृढवर्मराजतनयस्तस्यै स्वमालोकयत्, साऽपि प्रेक्ष्य तमापतन्तमकरोदाकारसंगोपनम् / स प्रोचे निजबान्धवाः स्मृतिपथं, किं देवि ! नीतास्त्वया ? ____ सम्पत्यङ्ग ! निरीक्ष्यसे प्रियतमे! पोद्विग्नचित्तेव यत् // 278 // एवमुक्तप्रकारेण ध्यात्वा विचार्य दृढवर्भराजतनयो गुणवर्मा तस्यै कनकवतीमुद्दिश्य स्वं स्वस्वरूपमालोकयददर्शयत् / सा कनकवत्यपि तं गुणवर्माणमापतन्तमागच्छन्तं प्रेक्ष्य आकारस्य वर्तमानस्योक्तप्रकारस्याकारस्य संगोपनमाच्छादनमवहित्थामकोरोत्, स गुणवर्मा प्रोचे पृष्टवान्, किमित्याह-- अङ्गेति कोमलामन्त्रणे, देवि प्रियतमे ! त्वया निजवान्धवाः स्मृतिपथं नीताः प्रापिताः, स्मृता इत्यर्थः, किमिति प्रश्ने, नन्वेतादृशप्रश्नस्य कोऽवसर इति चेत्तत्राह- यद्यतः सम्प्रति त्वम् प्रोद्विग्नं किञ्चित्स्मरणाद्वयाकुलं चित्तं यस्यास्तादृशी प्रोद्विग्नचित्तेव निरीक्ष्यसे दृश्यसे ? / / 278 // . . अथ कनकवतीकृतोत्तरमाह- दम्भेति-- दम्भारम्भपुरःसरं नृपसुतः, प्रोचे तया सादरं, प्राणेशे त्वयि देव ! नदंति चिरं, किं बन्धुवर्गेण मे ! / एतत् तद्वचनं निशम्य स पतिः संचिन्तयामासिवान् / कण्ठस्थं ध्रुवमेषिका प्रवदति, स्वान्तः स्थितं नाऽऽत्मनः // 279 // तया कन रुवत्या दम्भारम्भ पुरस्सरं सकपट सादरं नृपसुतो गुणवर्मा प्रोचे किमित्याह-देव ! त्वयि प्राणेशे चिरं नन्दति सानन्दं वर्तमाने सति मे बन्धुवर्गेण किम् ? न किमपि प्रयोजनमित्यर्थः / तस्याः कनकवत्याः एतदुक्तप्रकार वचनं निशम्य स तस्याः पतिः गुणवर्मा संचिन्तयामासिवान् दध्यौ किमित्याह एषिका कनकवती ध्रुवं निश्चयेन कण्ठस्थं मुखत एव प्रवदति, आत्मनः स्वस्य स्वान्तः स्थितं मनोगत स्वाशयं गोपायति, कल्पितं चोत्तरं ददातीति मां च्छलयतीत्यर्थः // 279 / /