SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 202 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ कनकवत्यवस्थां युग्मेण वर्णयति विलोकेति विलोकयामास महीन्द्रपुत्र-स्तत्र स्थितस्तां चकितैणनेत्राम् / महीतले मर्त्ययुगं लिखन्ती, निरीक्षमाणां परितोऽपि काष्ठाः // 273 // निःश्वासधारामतिदीर्घदीर्घा, विमुञ्चती मृत्युमिव प्रयान्तीम् / कपोलदेशे विधृताग्रयपाणिं, वितन्वतीं पञ्चमहुंकृति च // 274 // महीन्द्रपुत्रो गुणवर्मा तत्र वृक्षतले स्थितः सन् चकितस्य भीतस्यैणस्य मृगस्य नेत्रमिव नेत्रं यस्यास्तां चकितैणनेत्रां तां स्वप्रियां कनकवती महीतले पृथिव्यामेव मर्त्ययुगं मनुष्यद्वयं लिखन्तीं चित्रयन्ती परितः सर्वतः काष्ठाः दिशोऽपि निरीक्षमाणामवलोकमानाम् अतिदीर्घद धौ महल्लम्बायमानाम् निःश्वासधारां निःश्वासपरम्परां मुञ्चन्तीम्, अत एव, मृत्युमिव प्रयान्तीम् मृत्युतुल्यावस्थामाश्रयमानां कपोलदेशे गण्डस्थले विकृतोऽग्रयपाणिः कलकरतलं यया. तां तादृशीं करतलन्यस्तकपोलां पञ्चमहुकृतिं वतन्वतीं पीडया फूत्कुर्वन्तीं विलोकयामास ददर्श // 273 // 274 // अथ तां तथा दृष्ट्वा गुणवर्मणो वितर्कमाह ईगिति ईदृग्व्यवस्थां समवेक्ष्य चैतां, दध्यौ स्वचित्ते नृपतेस्तनूजः कन्दर्पबाणैरिव पीडितेयं, किं लक्ष्यते लक्षविकारलक्ष्या // 275 // एताम् कनकवतीमिदृशी वर्णितप्रकारा व्यवस्था विशिष्टा दशा यस्यास्तां तादृशीं समवेक्ष्य च नृपतेस्तनूजः राजपुत्रो गुणवर्मा दध्यौ किमित्याह - इयं प्रत्यक्षतो दृश्यमाना कनकवती लक्षण कपटेन विकारेणावस्थाविशेषेण लक्ष्या अनुमेया, किमिति वितर्के, कन्दर्पबाणैः कामबाणैः पीडितेव कामज्वरातॆव लक्ष्यते दृश्यते ? // 27 // अथ वितर्कान्तरमाह-मयेति मया समं वा विरहं किमेषा, सोढुं क्षणं न क्षमते मृगाक्षी ? / स्नेहेऽसमाने हि विजृम्भमाणे, स्वल्पो वियोगोऽपि सुदुःसहः स्यात् // 276 // वा अथवा एषा मृगाक्षी कनकवती क्षणं क्षणमात्रमपि मया गुणवर्मणा समं सह विरह सोढुं न क्षमते किम् ? ननु तस्य कथं संभावनेति चेत्तत्राह - हि यतः असमाने असाधारणे स्नेहे प्रेमणि विजृम्भमाणे विलसति सति स्वल्पः क्षणात्मकोऽपि वियोगः सुदुःसहः सोढुमशक्यः स्यादिति सम्भावनायाम् सातिशयप्रेम्णो योर्वियोगोऽसहनीयो भवतीत्यर्थः // 276 // अथ तन्निश्चयार्थ हेतुं संगृह्णाति-तदितितन्मां वीक्ष्य यदीयमाकुलमनाः, संपत्स्यते तद् ध्रुवं, तीव्रौर्वानलवद् ममैव विरहः, संतापयत्येतकाम् / आगच्छन्तमवेक्ष्य मां यदि पुनः, कर्ताऽवहित्यां स्वयं, नूनं क्वापि नरान्तरे तदियम-प्यासक्तिमालम्बते // 277 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy