________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 201 इत्येवमित्थमुक्त्वा कथयित्वाऽपि तस्याः कनकवत्याः दीक्षायाः उपलक्षणत्वात्तद्ग्रहणस्य निषेधे प्रवणामुन्मुखामभिसन्धिमाशयं विबुध्य शीलेन स्वचारित्रेण कृता आत्मरक्षा यस्यास्तां तादृशीं शीलबलशालिनी तां प्रेयसी कनकवतीम् बहिः पुराद्-बहिर्भुक्त्वा स गुणवर्माऽपि पुरं विवेश // 268 // अथ तस्य द्रव्योपार्जनमाह स इति स द्यूतकृद् द्यूतजयेन रायं, किञ्चित् समादाय परं प्रदाय / पौरोगवस्यापण एव गत्वा, व्यदीधपत् वण्डकमण्डकान्नम् / / 269 // स गुणवर्मा द्यूतकृद् द्यूतकर्मनिपुणः, अत एव द्यूते जयेन किञ्चित् रायं धनम्, समादाय प्राप्य “पौरोगवः सूदाऽध्यक्षः" इति हैमः / पौरोगवस्य सूदाध्यक्षस्य पाचकस्यापणे विपणौ गत्वा परं कञ्चित्पाचकमेव प्रदाय धनं दत्वा वण्डकमण्डकान्नं भक्षणार्थमन्नविशेष व्यदीधपत् कारयामास // 269 // अथ तयोर्भोजनमाह-निधायेति-- निधाय तत्पत्रपुटे पवित्रे, संगृह्य गत्वा विपिनान्तरे ताम् / अम्भोजनेत्रां लघु भोजयित्वा, भुंक्ते स्म शेषं स्वयमेव धीरः॥२७०॥ तत्पक्कमन्नं पवित्रे पत्रपुटे निधाय स्थापयित्वा सङ्ग्रह्य नीत्वा विपिनान्तरे वनमध्ये गत्वा अम्भोजनेत्रां पद्माक्षी तां कनकवतीम् लघु शीघ्रम् भोजयित्वा धीरः गुणवर्मा स्वयं शेष कनकवतीभुक्तावशिष्टमेव भुक्ते स्म // 270 // अथ तस्य चिन्तामाह भुजीति-.. भुजिक्रियानन्तरमेष वृक्ष-तले निविष्टो निजवल्लभां ताम् / ___दृष्ट्वा मनाक शून्यहृदं स्वचित्त, इदं स दध्यौ विगलत्समाधिः // 271 // एष स गुणवर्मा भुजिक्रियानन्तरम् भोजनानन्तरम् वृक्षतले निविष्ट उपविष्टः तां निजवल्लभां कनकवतीं मनाक् किञ्चित् शून्यहृदं शून्यमनस्कां दृष्ट्वा विगलन्समाधिः चञ्चलचित्तः सन् स्वचित्ते इदं वक्ष्यमाणं दध्यो चिन्तयामास // 271 // तच्चिन्तामेवाह-किमिति किं दुःखितेयं निजबान्धवानां, सस्मार किं वाऽपरमेव किञ्चित् ? ततः स चैवं प्रविचिन्य राजा-गजोऽप्युदस्थाद् गजराजशौर्यः // 272 // इयं कनकवती दुःखिता केनाऽपि दुःखेन पीडिता, किमिति वितर्के निजबान्धवानां सस्मार किम्? किं वा अपरमेव किञ्चित् तत्र कारणमिति शेषः ततोऽनन्तरम् गजराजशौर्यः गजेन्द्रवद्वलवान् स राजाङ्गजः गुणवर्मा एवमुक्तप्रकारेण प्रविचिन्त्य उदस्थादुत्थितोऽभूत् // 272 // शा० 26