________________ 200 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / सुन्दरि मनोरमे तावदादौ यौवनमुन्मादकं संयमभंगप्रयोजकमस्तीदमित्थं यर्दारितं कथितं तत् चारु युक्तं नैव, तत्र हेतुमाह-यौवनेऽपि त्वदृष्ट्या उन्मादकेऽपि युवत्वेऽपि बहवो जना जितेन्द्रियाः संयमवन्तोऽनुन्मत्ताः विलोक्यमानाः सन्ति दृश्यन्ते, एवञ्च यौवनमुन्मादकमिति न नियम इति भावः // 264 // इन्द्रियासन्तोष पवोन्मादक इत्याह-वृद्धति वृद्धत्वमाप्याऽजितगोचराश्च, स्वमन्वयं चाऽपि विगोपयन्ति / तद्यौवनं नोन्मदतानिदान-मक्षाणि सन्तोषपराङ्मुखानि // 265 // वृद्धत्वम्-अनुन्मादकत्वेनेष्टं वार्धक्यमाप्यापि अजितगोचराः विषयतृष्णापरवशाश्च स्वमन्वयं कुलं विगोपयन्ति दूषयन्ति विषयार्थमनुचितप्रवृत्तेरिति भावः तद्यौवनाभावेऽप्युन्मादकत्वसत्त्वरूपव्यतिरेकव्यभिचारसत्त्वात् पूर्वोक्तरीत्या यौवनेऽप्यनुन्मादकत्वरूपान्वयव्यभिचारसत्त्वाच्च यौवनमुन्मादतायाः प्रमत्ततायाः निदानं हेतुभूतं न तर्हि किं तन्निदानमिति चेत्तत्राहसन्तोषपराङ्मुखानि असन्तुष्टानि अक्षाणि इन्द्रियाणि, उन्मदतानिदानमिति भावः // 265 // सन्तोषेणोन्माद उन्मूलनीय इत्याह-सन्तोष इति- . सन्तोष एवं क्रियते महद्भिः, क्लीवैविधातुं च न शक्यते सः / महाशया एव तपांसि चक्रुः, स्वीकृत्य सन्तोषरसायनं यत् // 266 / / सन्तोषः तृष्णोपशमः महद्भिरात्मबलवद्भिरेव क्रियते, संतोष; क्लवैः आत्मबलहीनैः विधातुं न च नैव शक्यते, ननु तत्र कि मानमितिचेत्तत्राह-यद्यतः महाशयाः विषयतृष्णावर्जितत्त्वेन निर्मलोदाराशया एव सन्तोष एब बलोपचयहेतुत्वाद्रसायनमौषधिविशेष इव तत् स्वीकृत्य तपांसि तपोवतानि चक्रुः पालयामासुः, नोपभोगेन विषयेच्छा निवर्तते, किन्तु सन्तोषेणेप्ति भावः // 266 // ज्ञानी गुरुरपि न प्रष्टव्य इत्याह-शानीति ज्ञानी गुरुः कश्चन पृच्छयते चे-त्येतद् यदुक्तं न वरं तदेव / धर्मेऽन्तरायाभिधमेव कर्म, संजायते सुभ्र ! यतः कथञ्चित् // 267 // सुभ्र / कश्चन ज्ञानी गुरुः पृच्छ्यते चेत्येतद् यदुक्तं तद् नैव वरं श्रेष्ठम्, यतस्तथा कृते सति, कथञ्चिद्गुरुपृच्छादिना कालव्यपगमाद्धेतोः धर्मे धर्मविषये अन्तरायाभिधं कर्म एव संजायते, पृच्छादिना धर्मकार्ये कालबिलम्बोऽतरायहेतुरेवेति भावः // 26 // अथ गुणवर्मणः पुरप्रवेशमाह इत्येवमिति इत्येवमुक्त्वाऽपि विबुध्य तस्या, दीक्षानिषेधप्रवणाभिसन्धिम् / . मुक्त्वा बहिः शीलकृतात्मरक्षा, तां प्रेयसीं सोऽपि पुरं विवेश // 268 //