________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 199 तद्भवानित्यत्वाद्धेतोः, देवि ! कान्ते ! प्रिये ! चारित्रपात्रस्य निर्मलचारित्रास्पदस्यास्य सुगुरोः श्रीगुणरत्नसूरेः समीपे अधिदुःखां दुःखबहुलां विषयाणामुपसेवां सेवनं हित्वा त्यक्त्वा सम्प्रति दीक्षा परिव्रज्या आदीयते गृह्यते // 260 // अथ कनकवतीप्रतिवचनमाह-प्रत्याहेति प्रत्याह सा कान्त ! तदेतदुक्तं, स्थाने त्वया स्थानसमानधाम्ना / परं महोन्मादनिदानभूत-मद्याऽपि नौ योवनमस्ति तावत् // 261 // सा कनकवती प्रत्याह-- प्रतिवचनं ददौ, किमित्याह--कान्त ! प्रिय ! स्थानसमानं स्था नोचितं धाम प्रभावो यस्या तेन स्थानसमानधाम्ना स्थानोचितविचारेण त्वया तदेतदुक्तं स्थाने युक्तमेव, तदाऽऽदिशेति चेत्तत्राह- परं किन्तु, तावत्, नौ आवयोः अत्राप्यधुनाऽपि महतः उन्मादस्य मदोन्मत्तस्य चित्तक्षोभस्य निदानं हेतुभूतं यौवनं तारुण्यमस्ति, न तु तद्वयतीतमिति भावः // 261 // अद्यापि विषयतृष्णा वर्तत एवेत्याह-नैवेति नैवोपभुक्ता विषया यथेच्छं, प्राणप्रियाऽथापि निकाममेते / न लक्ष्यते तावदिदं कथश्चित्, कीदृन विवों भविता ह्यमीषाम् ? // 262 / / प्राणप्रिय ! अद्यापि अद्ययावदपि एते पञ्चेन्द्रियजन्यविलासादिविषया यथेच्छमातृप्ति निकामम् बाहुल्येन नैव उपभुक्ताः उपभोगविषयीकृताः, तावदतः इदं न लक्ष्यते ज्ञायते कथश्चिदपि केनापि प्रकारेण, हि यदमीषां विषयाणाम् अनुभुक्तानाम् विवर्त्तः परिणामः कीदृग्भवितेति, गृहीतायां दीक्षायां विषयेच्छा बाधिष्यते, अनुपभुक्तत्वादिति विषयानुपभुज्य पश्चात्तथा विचारश्चेत्तदा गृहीता दीक्षा निर्बाधा स्यादिति भावः // 262 // सम्प्रति संशये यत् कर्तव्यं तदाह-तदिति तज्ज्ञानपात्रं परिपृच्छय कश्चिद्, गुरुं यथौचित्यमिदं विधेयम् / निशम्य चैतद् गुणवर्मणाऽपि, पियां प्रति स्पष्टमिदं न्यगादि // 263 // तत्स्वयं विषयविवर्तापरिज्ञानाद्वतोः ज्ञानपात्रं ज्ञानिनं कञ्चिद् गुरुं परिपृच्छ्य स्वसन्देहनिवृत्तये पृष्ट्वा, पश्चाद्यौचित्यमौचित्यानुसारेणेदं दीक्षाग्रहणादि विधेयमनुष्ठेयम्, एतत्कनकवत्युक्तं निशम्य च गुणवर्मणाऽपि प्रियां कनकवी प्रति स्पष्टं यथा स्यात्तथा इदं वक्ष्यमाणं न्यगादिकथितम् // 263 // यौवनं न बाधकमित्याह-उन्मादकमिति उन्मादकं यौवनमस्ति ताव-दितीरितं यद् न तदेव चारु / जितेन्द्रियाः सुन्दरि यौवनेऽपि, विलोक्यमाना बहवोऽपि सन्ति // 264 //