________________ 198 पुणरत्नमरिम् / श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः अथ तयोः दम्पत्योः पुरसमीपगमनमाह-ताविति तौ जम्पती तापसचक्रवर्ती, मुमोच नेदिष्ठपुरोपकण्ठे / अतिष्ठतां तौ कमनीयबाह्यो-द्याने क्षणं वृक्षदिदृक्षयैव // 256 // ___ तापसे ऋषिषु चक्रवर्तीव सः ऋषिश्रेष्ठः तौ द्वौ जम्पती जायापती कनकवतीगुणवर्माणों नेदिष्ठस्य समीपस्थस्य पुरस्योपकण्ठे समीपे मुमोच प्रापयामास, तौ कनकवतीगुणवर्माण। कमनीये मनोहरे बाह्योद्याने वृक्षाणां दिदृक्षया द्रष्टुमिच्छयैवातिष्ठतां स्थितवन्तौ // 256 // अथ तयोः सूरिदर्शनमाह-महेति महामुनिश्रावकमध्यसंस्थं, तं तत्र च श्रीगुणरत्नमरिम् / . परिस्फुरच्छ्रीगुणरत्नराशि-रत्नाकरं सूरिमपश्यतां तौ // 257 // तत्र बाह्योद्याने च तौ कनकवतीगुणवर्माणौ महामुनीनां श्रावकाणां च मध्यसंस्थं मध्ये स्थितम् परिस्फुरतां शोभमानानाम्, श्रीणां लक्ष्मीणाम् गुणानामेव रत्नानां राशीनां रत्नाकरः सागर इव तं परिस्फुरच्छ।गुणरत्नराशिरत्नाकरं सूरिम् श्रीगुणरत्नसूरिं तदाख्यं मुनिश्रेष्ठम् पश्यतां दृष्टवन्तो // 25 // अथ तयोस्तत्प्रणाममाह-तौ इति-- तौ तस्य धर्म दिशतो मुनीशः, पादारविन्दद्वितयं निषेव्य / धत्तः स्म धमैकपरागलब्ध्या, प्रीतिं परां षट्पददम्पती व // 258 // तौ कनकवतीगुणवर्माणौ धर्म दिशतः उपदिशतस्तस्य मुनीशः मुनीन्द्रस्य श्रीगुणरत्नसूरेः पादारविन्दद्वितयं षट्पददम्पती भ्रमरमिथुनमिव निषेव्य, प्रणम्येत्यर्थः, धर्मरूपस्यैकस्यानन्यस्य परागस्य पुष्परसस्य लब्ध्या लोभेन कृत्वा परां सातिशयां प्रीति प्रसन्नतां धत्तः प्राप्नुतः स्म भ्रमराणां रसलाभेन तृप्तिरुचिरैवेति भावः, रूपकोज्जीवितोपमाऽलङ्कारः // 25 // अथ तयोः शुभनिवेशमाह-तत इति ततस्तदन्ते गुणवर्मणेय-मभण्यतैवं दयिते ! भवत्या / अनित्यतोद्योतकरं भवस्य, नीतं वचः श्रोत्रपथं यथार्थम् // 259 // ततः धर्मदेशनाश्रवणानन्तरम्, तस्य मुनेरन्ते समीपे गुणवर्मणा इयं कनकवती एवमभण्यताभाष्यत, एवमिति किमित्याह-दयिते ! प्रिये। भवत्या त्वया भवस्य संसारस्य अनित्यतायाः उद्योतकरं प्रकाशकं यथार्थम् सत्यं वचः श्रोत्रपथं नीतं श्रुतम् // 259 // ननु ततः किमिति चेत्तत्राह-चारित्रेति चारित्रपात्रस्य तदस्य कान्ते ! धर्मोपदेष्टुः सगुणेः समीपे। हित्वाऽधिदुःखां विषयोपसेवा-मादीयते संप्रति देवि ! दीक्षा // 26 //