________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / * नरेन्द्रसूः राजपुत्रो गुणवर्मा तं विद्याधरमग्रकेशेषु केशानामग्रभागेषु धृत्वा गृहीत्वा कृष्ट्वा आकृष्य च सदर्पम् साटोपमित्यवदत् , इतीति किमित्याह-- अरे ! हतप्रताप ! नष्टतेज ? त्वया विद्याधरेण सम्प्रति मयि जाग्रति तत्पूर्वमपि प्रयुक्तम् स्ववीर्य स्वसामार्थ्य कुत्र स्थाने न्यासीकृतं गोपितम् ! शयाने प्रभवतस्तव जाग्रति मयि बलहीनता कथमिति स्वबलमविचार्यैव प्रवर्त्तमाः नस्य तव महानीचतेति भावः // 252 // - अथ कुमारकृतविद्याधरमुक्तिमाह-तदिति तत् सांप्रतं याहि मयाऽसि मुक्तः, पुनः प्रशस्यं न बलं छलेन / / प्रवर्तते नैव मयैव शस्त्रं, निशातमध्यस्त्रविवजितेऽदः // 253 // तत्ततः निरायुधत्वादल्पबलत्वेन कृपापात्रत्वाच्च हेतोः मया गुणवर्मणा अधिकबलवता उदात्तचरित्रेण च मुक्तः क्षान्तापराधोऽसि, सांप्रतं याहि, पुनः छलेन कपटेन बलप्रयोगः न प्रशस्यमुचितम्, अतस्तथा त्वया पुनर्नाचरणीयमिति भावः त्वादृशस्य नीचस्य तु वध एवोचितः, किन्तु उदात्तचरित्रस्य मम गुणवर्मणः एव, शस्त्रम् निशातं तीक्ष्णमपि, त्वत्प्राणहरणसमर्थमपि अदो दृश्यमानम् अस्त्रविवर्जिते निरायुधे त्वयि अन्यत्रापि च कापि न प्रवर्तते पतति, तस्य वीरानुचितत्वादिति भावः // 253 // अथ विद्याधरस्य स्ववृत्तनिवेदनमाह-तमिति तं तत्प्रियाऽभाषत कान्दिशीकं केनाऽत्र भूयोऽसि जड ? प्रणुन्नः ? मां प्रेरयामास पुनः पुनः सा प्रजावती भर्तृवियोगदग्धा // 254 // तस्य गुणवर्मणः प्रिया कनकवती कान्दिशीकं, भयातं तं विद्याधरमभाषतापृच्छत्, किमित्याह-जड़! अज्ञानिन् / नहि विज्ञः कश्चित्तथाऽनुचितं विधत्ते इति भावः अत एव दयापात्रत्वमपि सूचितम् / अत्र दृश्येऽनुचित कार्ये केन का प्रणुन्नः प्रेरितो नियुक्तो वाऽसि ! अथ विद्याधरकृतोत्तरमाह- मां विद्याधरं भर्तुः वियोगेन कुमारकृतवधेन हेतुना दग्धा पीड़िता सा प्रजावती पुत्रवती गर्भिणी वा विद्याधरेन्द्र पत्नी पुनः पुनः प्रेरयामास // 254 / / अथ गुणवर्मकृतां सोपदेशां तद्विद्याधरमुक्तिमाह-नरेन्द्रेति नरेन्द्रसूरभ्यधितेदृशं मा, भूयः कृथास्तत्मतिपादनेन / इति प्रणनं स च तं विनीय, विनीतविद्यप्रवरो मुमोच // 255 // नरेन्द्रसूः राजपुत्रो गुणवर्मा अभ्यधितोचे, किमित्याह- तस्य विद्याधरस्य स्त्रियः प्रतिपादनेन निवेदनेन प्रेरणेन वा कृत्वा भूयः पुनरपि ईदृशमेवमुक्तप्रकारं मा कृथा न कुर्याः, इतीत्थं प्रणनं कृतप्रणामं तं विद्याधरं विनीतया अभ्यस्तया विद्यया कृत्वा प्रवरः उदात्तचरित्रः स गुणवर्मा च विनीयोपदिश्य मुमोच // 255 //