________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / बुद्धया, चन्द्रकिरणेन तस्य श्वेतिमप्राप्तेर्भ्रान्तेरिति भावः समालिङ्गति, तथा चक्री चक्रवाकी पुरस्तादपि अग्रतः स्थितम् , सितपक्षिणं श्वेतगरुतं हंसमेव कान्तम् मत्वा भ्रान्तेरेवेति भावः / राजहंसम् , समालिङ्गति, अन्यत्किम् ? कोऽन्यश्चन्द्रकरप्रभावो वर्ण्यताम् ? अयमेव महाविस्मयकरः इति भावः / अत्र चन्द्रकिरणैः रूपपरावृत्ते भ्रान्त्या स्वजातिविरोधिप्रवृत्तिप्रतिपादनाद् भ्रान्तिमानलङ्कारः // 248 // अथ कुमारप्रवृत्तिमाह-विनोदेति विनोदगोष्ठीमनुभूय वध्वा, तया समं निर्दलितप्रमीलः / तदा कुमारः स च यावदस्थात् , तावत् स खेटः पुनरागमद् द्विट् // 249 // तदा तादृशचन्द्रे जाग्रति, स कुमारः गुणवर्मा तया वध्वा भार्यया कनकवत्या समं सह विनोदगोष्ठीम् क्रीडामनुभूय, निर्दलिता भग्ना प्रमीला निद्रा तन्द्रा वा येन स तादृशः निर्दलितप्रमीलः जाग्रदेव यावदस्थात् स्थितः, तावच्च स द्विट् दुष्टः शत्रुर्वा खेटः विद्याधरः पुनः आगमदागतवान् // 249 // अथ कुमारकृतततर्जनमाह-तेनैवेति तेनैव साक्षेपमितीरितोऽसा-बरे ! प्रमीलापहतस्य मे द्विः / तदा त्वयैवापगतं क गन्ता, तत् सांप्रतं तिष्ठ निकृष्ट ! मेऽग्रे ? // 250 // तेन कुमारेण गुणवर्मणा एव साक्षेपं सतिरस्कारमसौ विद्याधरः इतीरितः कथितः, इतीति किमित्याह- अरे ! निकृष्ट ! अनुचितकारित्वान्नीचतर ! तदा पुरा त्वया दुष्टेनैव द्विः द्विवारम् , प्रमीलया निद्रया अपहतस्यासंज्ञस्य मे मम अपगतं वञ्चयित्वा पलायितम्, तत् साम्प्रतं मयि जाग्रति सति क गन्ता यास्यसि ? नाद्य कापि गते लत्त्राणमित्यर्थः मम अग्रे तिष्ठ, अद्य स्वकृत्यफलं भोक्ताऽसीतिभावः // 250 // अथ तस्य भयवर्णयतीत्याह-समिति संतर्जितस्यास्य नृपाङ्गजेन, तनैवमस्त्रं गलितं करस्थम् / दृष्ट्वा कुमारोऽपि निरायुधं तं, पाणिस्थितं शस्त्रममुश्चदाशु // 251 // तेन नृपाङ्गजेन राजपुत्रेण गुणवर्मणा एवमुक्तप्रकारेण सन्तर्जितस्य भर्त्सितस्यास्य विद्याधरस्य करस्थमस्त्रमायुधं गलितं भयाज्जडीभूतात्करात्पतितम् / कुमारः गुणवर्माऽपि तं विद्याधरम् निरायुधमस्त्ररहितं दृष्ट्वा आशु शीघ्रमेव पाणिस्थितं स्वकरस्थमस्त्रममुञ्चदत्यजत् निरायुधे आयुधप्रहारस्य वीरधर्मविरुद्धत्वादिति भावः // 251 // अथ कुमारकृततिरस्कारमाह-तमिति तमग्रकेशेषु विधृत्य कृष्ट्वा, नरेन्द्रसरित्यवदत् सदर्पम् / अरे ! त्वया संपति तत् स्ववीर्य, न्यासीकृतं कुत्र हतमताप ! // 252 //