________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / 195 चन्द्रः कश्चिन्नृपश्च / राजा प्रभो नृपे चन्द्रे यक्षे क्षत्रियशक्रयो' रित्यमरः / करान् किरणान् राजग्राहयभागांश्च वितन्वन् विस्तारयन् आरोपयंश्च अति मन्दं मन्दं शनैः शनैः प्रकटीबभूव उद. गाद् व्यवस्थामस्थापयच्च / अव्यवस्थं नियमानुलक्यन्तं हि लोकं नृपः करारोपणादिद्वारा क्रमशः प्रजा वशीकरोतीति भावः / अत्र विशेषणबलाच्चन्द्रे नृपव्यवहारप्रतीतेः समासोक्तिरलङ्कारः // 245 // ___ अथ चन्द्रोदयस्य व्यक्तिविशेषे फलवैगुण्यमाह सुधेति. सुधामयूखेऽप्युदिते हिमांशौ, यच्चक्रवाकैः स वियोगतापः / सुदःसहः प्राऽऽपि तदत्र हेतुं, संभावयामो नियतेनियोगम् // 246 // सुधा एव मयूखो किरणों यस्य तादृशे सुधामयूखे अमृतकिरणे, अपि, अत्रापिना अमृतेनापि दुःखमिति 'विरोधाभासः' सूच्यते / हिमांशौ चन्द्रे उदिते उदयं गते सति चक्रवाकैः स्वनामप्रसिद्धैः पक्षिविशेषैः यत्सुदुःसहः वियोगतापः वियोगरूपो ज्वरः प्रापि, रात्रौ चक्रवाकद्वन्द्वं वियुज्यते इति कविसमयप्रसिद्धेरिति भावः / तत्ततोऽत्र विषये नियतेर्भाग्यस्य नियोगं प्रेरणामेव हेतुं संभावयामः अनुमिनुमः, कथमन्यथा सुखहेतोरपि दुःखमिति भावः / पदार्थानां सुखादिहेतुत्वं भाग्याधीनं, न तु तेषां स्वतः सुखदुःखजनकतेत्यर्थः // 246 // अथ चकोरतृप्तिमाह-सुधाकर इति सुधाकरो हन्त ! करोति चेद् न, ज्योत्स्नाप्रसिद्धामृतपानसत्रम् / चकोरडिम्भाः कथमाश्रयन्ते, तत्पुष्टिमेषां न परं यदिष्टम् // 247 // हन्तेति विस्मये, पदार्थानां विस्मयकरे वैगुण्यसाद्गुण्ये इति भावः / सुधाकरः चन्द्रः चेयदि ज्योत्स्नानाम् प्रसिद्धममृतपानाख्यं सत्रम् यज्ञमुत्सवं वा न करोति कुर्यात् , तर्हि, चकोराणां पक्षिविशेषाणां डिम्भाः शावकाः “पोत: पाकोऽर्भको डिम्भः पृथुकः शावकः शिशु' रित्यमरः / तैः करैः कृत्वा पुष्टि तृप्ति पोषणञ्च कथं केन प्रकारेणाश्रयन्ते आश्रयेयुः प्राप्नुयुः नैवेत्यर्थः / चकोराश्चन्द्रिकाः पिबन्तीति कविसमयप्रसिद्धिरिति भावः ननु पेयान्तरेण तेषां तत्साध्यमिति चेन्न, तदाह एषां चकोरडिम्भानां परमन्यत्पेयान्तरं, यद्यतः इष्टमुपादेयं तृप्तिकरं च न नास्तीत्यर्थः / यः सुधाया आकरः करो वा, तस्य लोकसुखार्थं सत्रारम्भ उचित एवेति भावः // 247 // अथ चन्द्रकरप्रभावं वर्णयतीत्याह-हंसीतिहंसी समालिङ्गति चक्रवाकं, स्वकान्तबुद्धया सितपक्षिकान्तम् / चक्री पुरस्तादपि राजहंसं, नवस्य राज्ञोऽभ्युदये किमन्यत् ? // 248 // नवस्यापूर्वस्य राज्ञः चन्द्रस्य, कस्यचिन्नृपस्य वा अभ्युदये उदये, अन्युन्नतौ च, सम्भ्रमवशाद् भ्रान्तेश्च, हंसी वरटा "हंसी वारटावरटा" इति हैमः / चक्रवाकं स्वकान्तबुद्धया हंस