________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / मर्थमुद्भावयितुं प्रकटयितुमिव तदा तस्मिन् काले स सहस्रधामा सूर्योऽपि अस्तमियायादृश्यतां गतः // 241 // अथ तमो वर्णयति प्रभेति प्रभाकरे चास्तमिते तमस्सु, समन्ततो विस्तृतिमाश्रितेषु / प्राचीपतीचीप्रमुखो बुधेन, केनाऽपि नालक्षि दिशां विशेषः // 242 // प्रभाकरे सूर्य अस्तमिते अस्तं प्राप्ते तमस्सु अन्धकारेषु समन्ततः सर्वतः विस्तृतिं वृद्धिमाश्रितेषु प्राप्तेषु च सत्सु केनापि बुधेन विदुषापि, किमुतापरेण, प्राची प्रतीचीप्रमुखः दिशां विशेषः भेदः नालक्षि न ज्ञातः, गाढान्धकारतः दिग्विवेको विलुप्तो धीमतामपीत्यर्थः // 242 // तमसो भङ्गया अवधिमाह-कलानिधेरिति कलानिधेरभ्युदयो न यावत्, कवेगुरोर्वा न च तारकस्य / / सूरस्य यावद् न पुनः प्रकाश-स्तावत् तमांसि प्रसरन्तु नाम // 243 // नामेति प्रसिद्धौ, तमांसि तावत् तदवधि प्रसरन्तु, यावत् कलानिधेः चन्द्रस्याभ्युदयः उदयः न, कवेः शुक्रस्य, गुरोः जीवस्य, तारकस्य वा नाभ्युदयः, पुनः यावत्सूरस्य सूर्यस्य न प्रकाशः एतेषु उदितेषु तमांसि नश्यन्त्येवेति भावः // 243 // अथ प्रलेषेण तमोऽज्ञानयोः सामानाधिकरण्यमाह न इति न वर्णभेदः कचनापि यत्र, कनीयसो यत्र गुरोर्न मानः / / शब्देन यत्रास्ति विशेषबोध-स्तमांसि तत्र प्रसरन्ति किं न // 244 // यत्र स्थाने कचनापि कुत्रापि वर्णभेदः ब्राह्मण्यादिवर्णविवेकः अथ च नीलपीतादिवर्णविवेकः तमसि रूपस्याप्रत्यक्षत्वादिति भावः / तथा यत्र, कनीयसः अल्पतमस्यापेक्षया गुरोर्महतः मानः सम्मानः अथ च यत्र हस्वदीर्धयोः उच्चनीचयोर्वा मानः प्रमाणं नास्ति तमसा पदार्थानामावृतत्वेन तत्प्रमाणाज्ञानादितिभावः, तथा यत्र शब्देन साधनेन कृत्वा विशेषबोधः तत्पदार्थबोधः न तु प्रत्यक्षतः तथा यत्र उच्चैर्विहिस्य वक्ता एव विशिष्टो मन्यते तत्र तमांसि अन्धकाराः अज्ञानानि वा किं कुतो न प्रसरन्तु ? अपितु प्रसरन्वेव तमसि अज्ञाने च प्रसृते उक्तरूपमुभयमेव जायते इति भावः श्लेषः // 244 // अथ चन्द्रोदयमाह-जगदिति जगत् समस्तं निहतव्यवस्थं, प्रसृत्वरैर्वीक्ष्य तमःमपञ्चैः / राजा ततोऽयं प्रकटीवभूव, करान् वितन्वन्नतिमन्दमन्दम् // 245 // समस्तं जगत् प्रसृत्वरैः प्रसरद्भिः तममां प्रपञ्चैः विस्तारैः निहता अस्तव्यस्ता व्यवस्था अवलोकनादिस्थितिः यस्मिन् तादृशं निहतव्यवस्थमव्यवस्थं वीक्ष्य ततो हेतोः अयं दृश्यमानो राजा