________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ पुनस्तयोः सङ्गममाह-पाथ इति पाथोनिधे रोधसि पूर्ववत् तौ, तत्रैव भूयो मिलितौ कथञ्चित् / इदं स निर्वेदमवोचताऽयं, पुरः प्रियाया दृढवर्मसनुः // 237 / / तौ कनकवतीगुणवर्माणौ पूर्ववत् तत्र तस्मिन्स्थाने एव पाथोनिधेः समुद्रस्य रोधसि तटे कथञ्चित्केनापि प्रकारेण भूयः पुनरपि मिलितौ सङ्गतौ अयं दृढवर्मसुनुः गुणवर्मा प्रियायाः कनकवत्याः पुरः सनिर्वेदं सवैराग्यमिदं वक्ष्यमाणमवोचत // 237 // किमवोचतेत्यपेक्षयामाह-नेति न भास्वता नैव कलावताऽपि, न चाऽपि सूरेण बुधेन नाऽपि / अहो ! बलेनापि पुरा कृतं तद् , विलनितुं कर्म न शक्यतेऽदः // 238 // भास्वता सूर्येण न, कलावता चन्द्रेणापि नैव, सूर्येण बलवता न चाऽपि बुधेन विदुषा नाऽपि, बलेन बलभद्रेणापि पुरा पूर्वजन्मनि कृतमदः परोक्षं कर्मादृष्टं विलचितुमतिकामितुं न शक्यते, तद् अहो आश्चर्यम् // 238 // . राज्यमिति राज्यं का तत् प्राज्यमहीमहेन्द्र-शिरःस्रजाऽभ्यार्चितपादपीठम् ? उपर्युपर्यागतिपीवराणि, क्वेमानि दुःखान्यपि नौ महान्ति ? // 239 // तत्प्रागनुभूतम् प्राज्यानां बहूनां महीमहेन्द्राणां नृपाणां शिरःस्रग्भिः मूर्धमाल्यैः अभ्यचिंतं पादस्य पीठमासनं यत्र तादृशं राज्यं क कुत्र, तथा नौ आवयोः उपर्युपरि पुनः पुनः आगतिभिरागमनैः पीवराणि विपुलानि महान्ति चिरस्थायीनि इमानि अनुभूतानि दुःखान्यपि क्क, अनयोर्महदन्तरमिति भावः // 239 // * अथ कनकवतीकृतगुणवश्विासनमाह-तत इति ततस्तयेशाननरेन्द्रपुत्र्या-ऽस्य धीरवृत्तानि परःशतानि / निदर्शनीकृत्य मन:स्थखेद-च्छेदः क्षणेन क्रियते स्म सत्या // 240 // ततः तया कनकवत्या इशाननरेन्द्रपुत्र्या सत्या अस्य गुणवर्मणः परःशतानि शतशः धीरवृत्तानि निदर्शनीकृत्य दृष्टान्तं दत्वा मनःस्थखेदच्छेदः चित्तवर्तिविषादापनयनं क्षणेन तत्कालं क्रियते स्म // 240 // अथ तदा सूर्यास्तमाह-उदेतीति उदेति सम्पद महतामवश्यं, विपच्च तेषामपि नापरेषाम् / ___ इत्यर्थमुद्भावियतुं तदाऽस्य, सहस्रधामाऽस्तमियाय सोऽपि // 241 // महताम् संम्पदुदेति आगच्छति, वर्धते च अवश्यं नात्र संदेहः, विपच्च विपदपि तेषामपि महतामेव न अपरेषाममहताम्, यस्योदयस्तस्यैव क्षयोऽपि इति भावः। अस्य गुणवर्मणः इति इमिशा० 25