________________ nand mmmmmmmAAI 192 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / ___ पुनः अद्य विनिःसरन्ती स्ववधार्थ तापसाश्रमान्निगच्छन्ती एषा कनकवती तापसानां मुनीनामोधैः समूहैः शक्त्या बलपूर्वकेन, एतेन तस्यास्तीवो गमनोधमः सूचितः करे धृत्वा अस्थाप्यत रक्षिता, भद्र ! यावत्त्वमत्रागमः आगतवानसि, एव इतीत्थमादिश्य कथयित्वा स विद्वान् मुनिर्व्यरंसोन्मौनमास्थात् // 232 // अथ कनकवत्याः स्विवृत्तकथनमाह-साऽपीति साऽपि स्ववृत्तं दयितेन पृष्टा, शिष्टा यथावृत्तमभाषतैवम् / विद्याधरेणाऽहमिलाभृतोऽस्य, समुन्नते सानुनि तेन मुक्ता // 233 // ___ शिष्टा सदाचारा सा कनकवत्यपि दयितेन पत्या गुणवर्मणा पृष्टा सती एवं वक्ष्यमाणेन प्रकारेण यथावृत्तं वृत्तमनतिक्रम्य स्वस्य वृत्तं समाचारमभाषत, एवमिति किमित्याह अहं कनकवती तेन त्वदब्धिक्षेपकेण विद्याधरेण अरय दृश्यमानस्येलाभृतः पर्वतस्य समुन्नते अत्युच्चे . सानुनि शिखरे मुक्ता क्षिप्ता // 233 / / ततः किं जातमित्यपेक्षायामाह-अवेति अवातरं तस्य महीधरस्य, शृङ्गादहं कान्त ! कथञ्चनाऽपि। समागमं चात्र परं भ्रमन्ती, शेषं ततस्ते विदितं समस्तम् // 234 // कान्त ! प्रिय ! गुणवर्मन् ! अहं कनकवती कथञ्चनापि महता कष्टेन तस्य महीधरस्य पर्वतस्य शङ्गात् शिखरात् अवातरं नीचैः आगाम् / भ्रमन्ती अत्राश्रमे समागाम् च ततः परं शेषं समस्तं वृत्तान्तं ते तव विदितं, मुनिकथनेनेति भावः // 234 // अथ तत्र तयोदिनयापनमाह-अथेति अथाप्लवन्तौ प्रवितत्य शैल-कूलङ्कपावारिणि सत्तरङ्गे / माधुर्यधुर्य च फलादि भुक्त्वा, शेषं दिनं निन्यतुरेकचित्तौ // 235 // अथानन्तरम् सत्तरङ्गे सत्तरङ्गशोभिते शैलस्य कूलङ्कषाया नद्याः वारिणि जले आप्लवन्तो मज्जन्तौ प्रवितत्य स्नानादिक्रियां समाप्य माधुर्यधुर्यमतिमधुरं फलादि भुक्त्वा च एकाकचित्तौ निरतिशयप्रेमाणौ तौ कनकवतीगुणवर्माणौ शेषमवशिष्टं दिनं निन्यतुः / / 235 // अथ तयोः पुनरब्धिक्षेपमाह-एकत्रेति एकत्ररम्भानिलये प्रसुप्तौ, परस्पराश्लेषपरौ रजन्याम् / विद्याधरः सोऽप्यपहृत्य रोषाद, वारांनिधौ निक्षिपति स्म भूयः // 236 // एकत्रैकस्यां रजन्या रात्रौ रम्भानिलये कदलीगृहे प्रसुप्तौ परस्परमाश्लेषपरावाश्लिष्टौ तौ कनकवतोगुणवर्माणौ स विद्याधरः भूयोऽपि रोषादपहृत्य वारांनिधौ समुद्रे निक्षिपति मुञ्चति स्म // 236 //