________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु ततः किमित्यपेक्षायामाह वियोगेति वियोगदाहज्वरपीडिताऽहं, तस्यैव तेनैव परित्यजामि / माणान् निजानित्यभिधायक्ष-मारुह्य कण्ठे विततान पाशम् // 228 // अहं कनकवती तस्य प्रियस्य गुणवर्मणः वियोगस्य तज्जिनितो यो दाहस्तापः स एवं पीडकत्वाज्ज्वरस्तेन पीडिता व्यथिता, तेन हेतुनैव निजान् प्रणान् परित्यजामीतीत्थमभिधाय वृक्षमारुहय कण्ठे पाश पाशरज्जु विततान चकार // 228 / / ननु ततः त्वया किं कृतमिति चेत्तत्राह पतामिति एतां तथास्थां समवेक्ष्य वेगा-दागत्य पाश्चे दयया परीतः। अभाषिषीति प्रकृतिप्रशस्ये ? मा मा कृथाः साहसमाः ? वृथा त्वम् // 229 // एतां कनकवतीं तथास्थां कण्ठलग्नपाशरज्जूं समवेक्ष्य वेगात् झटिति पार्चे समीपे आगत्य दयया परीतः परवशः सन् इति अभाषिषि आख्यम्, इतीति किमित्याह-प्रकृत्या स्वभावत एव प्रशस्या तत्सम्बोधने, त्वम्, आः खेदे, खेदकरोऽयं साहस इत्यर्थः / वृथा साहसम् आत्मबधादिरूपं मा मा कृथाः, सम्भवे द्विरुक्तिः / / 219 // अथ पतिप्राप्तिनिवेदनेन तत्समाश्वासनमाह इत इति. इतो दिनादेव दिने तृतीये, भर्ता तवैवात्र समेष्यतीति / ज्ञानेन विज्ञाय यथार्थमस्यै, न्यवेदयं वेदविचारचारुः // 230 // वेदानां विचारे चारुनिपुणः वेदतत्त्वज्ञोऽहं जटाधरः ज्ञानेन यथार्थ तथ्यं भाविनमर्थ विज्ञाय अस्यै कनकवत्यै इतोऽस्मादिनात्तृतीये आगामिनि दिने एव, न तु ततोऽधिके तव भर्ता अत्रैव समेष्यत्यागमिष्यतीतीत्थं न्यवेदयमकथयम् // 230 // ननु तदनन्तरं किं जातमित्यपेक्षायामाह मदुक्तेति मदुक्तमेतं विनिशम्य तस्मात्, तरोः समुत्तीर्य विनम्य मेयम् / मदाश्रये त्यक्तमदाश्रयेऽस्थाद्, मया सहागत्य दिनत्रयं सा // 231 // एतदुक्तप्रकारं मम जटाधरस्योक्तं समाकर्ण्य तस्मात्तरोवृक्षात्समुत्तीर्यावारुह्य मा मां जटाधरं विनम्य इयं सा कनकवती मया सहागत्य दिनत्रयं यावत्यक्तः मदस्याभिमानस्याश्रयो यस्मिन्नेतस्मिन् शान्ते निष्पापे च ममाश्रये गृहे अस्थास्थितवती // 231 // अथ कनकवत्याः पुनरपि स्ववधोद्यममाह विनिःसरन्ती पुनरद्य शक्त्या, धृत्वा करेऽस्थाप्यत तापसोधैः। यावत् त्वमत्रागम एव भद्रा-दिश्येति विद्वान् स मुनिव्यरंसीत् // 232 //