________________ ArAnimarathiwwwromwww श्रीशान्तिनाथमहाकाव्यम्-पोडशः सर्गः। अथ तत्र कनकवत्यवलोकनमाह ईशानेति - ईशानचन्द्रस्य नरेश्वरस्य, कन्यां स संप्रेक्ष्य तुतोष तत्र / अस्मै नतायाऽथ स सुस्थिताय, तद्वृत्तमाख्याद् गुरुरच्छवृत्तः॥२२३॥ स गुणवर्मा तत्राश्रमे नरेश्वरस्य नृपस्य ईशानचन्द्रस्य कन्यां कनकवतीं संप्रेक्ष्यावलोक्य तुतोष तुष्टोऽभूत् अथानन्तरम् अच्छवृत्तः निर्मलाचारः स गुरुर्जटाधरगुरुः, सुस्थिताय स्वस्थाय नताय प्रणतायास्मै गुणवर्मणे तस्याः कनकवत्यास्तत्रागमनादिरूपं वृत्तं वृत्तान्तमाख्यत्कथितवान् // 233 // किं तद्वत्रमित्यपेक्षायामाह राजेति राजाङ्गजाऽऽकर्णय सावधानो, दिनादितस्तुर्यदिने विनोदात्। वनं प्रयातेन मयेक्षितेय-मन्तर्हितेनेति निवेदयन्ती // 224 // राजाङ्गज ! नृपपुत्र ! गुणवर्मन् ? सावधानो दत्तकर्णः सन् आकर्णय शृणु / किमित्याहइतोऽस्माद्विनात्तुर्यदिने व्यतीते 'चतुर्थे दिने विनोदात् मनोरञ्जनहेतोः वनं प्रयातेन मया जटाधरेण अन्तर्हितेन वृक्षादिभिरन्तरितेन सता इति वक्ष्यमाणं निवेदयन्ती ब्रुवाणेक्षिता इयम् // 224 // . किं त्रुवाणेत्यपेक्षायामाह-वनेति बनान्तदेव्यो भगवत्य एता! दिगीश्वरा अप्यपराश्च देव्यः ? दौर्भाग्यवर्णोपचिते ललाटे, कृत्वाऽञ्जलिं विज्ञपयामि युष्मान् // 225 // एताः भगवत्यः वनान्तदेव्यः दिगीश्वरा दिक्पाला दिक्पालिकाश्चाप्यपराः अन्याश्च देव्यः! युष्मान् दौर्भाग्यस्य मन्दभाग्यतायाः यो वर्णोऽक्षरम् तेन उपचिते समन्विते, भाग्यं ललाटे लिखितं भवतीति भावः ललाटे मस्तके अञ्जलिं करसम्पुटं कृत्वा विज्ञपयामि निवेदयामि // 225 // किन्तन्निवेदनमित्यपेक्षायामाह-मदिति मत्प्रेयसा तेन कृते ममैव, बादं विसोढं गुरुदुःखजातम् / किञ्चित् कदाचित् किल तस्य कार्ये, कुत्राऽप्युपाकार्षमहं तु नैव // 226 // मम कृते हेतोरेव, नत्वन्यस्याः कृते,तेन मच्चित्तस्थेन मम प्रेयसा प्रियतरेण पत्या गुणवर्मणा गुरु महद् दुःखजातं बाई भृशं विशोढम्, अहं कनकवती तु तस्य कार्ये कदाचित्किल किश्चिदपि कुत्राऽपि नैव उपकार्षम् उपाकारमाधाम् / / 226 / / तज्जीवनधारणासामर्थ्यमाह दिनेति- दिनत्रयं नीरनिधेः स तीरे, मया समालोकि विलोक्यमूर्तिः। ततः परं नैव विना ततस्तं, न जीवितं धर्तुमहं क्षमाऽस्मि // 227 // मया कनकवत्या नीरनिधेः समुद्रस्य तीरे दिनत्रयं यावत् विलोक्यमूर्तिः दर्शनीयरूपः स मत्प्रियः गुणवर्मा समालोकि एष आगच्छतीत्येवमपेक्षितः ततः ततः दिनत्रयात्परम् नैव. समा लोकि, अशक्यत्वादेव, ततो हेतोरग्रतः तं प्रियं विना अहं जीवितं धर्तुं नैव क्षमाऽस्मि // 22 //