________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तेन गुणवर्मणा अवाच्युक्तम्, किमित्याह- इन्दुमुखि ! महद्भिः प्रियायाः कृते निमित्तं किं न क्रियते ! अपि तु सर्वम् एव क्रियते इत्यर्थः तत्र हेतुमाह-यस्मात् , निजं कलत्रं भार्या च परस्यान्यस्य वश्यमधीनमित्येव पराभवस्तिरस्कारः दुःसहः सोढुमशक्य इत्यर्थः // 218 // अथ द्वयोः सहशयनमाह इतीति इत्युज्ज्वलप्रेममनोरमां ता-मालप्य बांलां प्रबलानुरागः / निशीथिनीशेषमशेत सत्रा, तयैव सुत्रामकलत्रभासा // 219 // इतीथम् उज्ज्वलेनोत्कटेन प्रेम्णा, यहा उज्ज्वलं प्रेम यस्याः सा चासौ मनोरमा च ताम् तां बालां कनकवतीमालप्याभाष्य प्रबलानुरागः सातिशयप्रेमा गुणवर्मा सुत्रामकलत्रस्य इन्द्राण्या भाः कान्तिरिख भाः यस्याः सा तया तया कनकवत्या सत्रा सह एव निशिथिनीशेषं रात्रिशेषं यावत्, अशेत निद्रितवान् // 219 // अथ कुमारस्याब्धिप्रक्षेपमाह रतेति रतश्रमातॊ भजतः स्म यावत्, निद्रामुखस्वादमिमौ प्रहृष्टौ / तत्सोदरः खेचर एव ताव-दुत्क्षिप्य चिक्षेप कुमारमधों // 220 // इमौ कनकवतीगुणवर्माणौ प्रहृष्टौ प्रसन्नौ सन्तौ एतस्य श्रमेण आतॊ खिन्नौ यावन्निद्रासुखस्वादं निद्रामित्यर्थः भजतः प्राप्नुतः स्म, तावत् तस्य हतस्य विद्याधरस्य सोदरः सहोदरो भ्राता खेचरः विद्याधरः कुमारमुत्क्षिप्य उत्तोल्याब्धौ चिक्षेप // 220 // अथ कुमारस्य तीरप्राप्तिमाह-अवाप्येति.. अवाप्य किश्चित् फलकं स्वपुण्य-फलानुकारं दृढवर्मजन्मा। . असौ दिनैः सप्तभिरूमिनुन्नः, पयोनिधेस्तीरमवाप धीरः // 221 // असौ दृढवर्मजन्मा दृढवर्मपुत्रो गुणवर्मा धीरः धैर्यवान् सन, स्वपुण्यस्य फलस्यानुकारं प्रतिरूपमिव किञ्चित्फलकं काष्ठखण्डमवाप्य ऊर्मिभिः तरङ्गैः नुन्नः प्रेरितः सप्तभिर्दिनैः कृत्वा पयोनिधेः समुद्रस्य तीरमवाप // 221 // अथ तस्य जटाधराश्रमगमनमाह तमिति तं पाणवृत्तिं मधुरैः फलाद्यै-र्जटाधरः कश्चन कारयित्वा / विलोकनानन्तरमेव पूज्य-निदेशतः स्वाश्रममानिनाय / / 222 // कश्चन जटाधरः योगी तं गुणवर्माणं विलोकनानन्तरमेव मधुरैः फलाद्यैः प्राणवृत्ति प्राणधारणं कारयित्वा 'भोजयित्वेत्यर्थः' एतेन तस्य जटाधरस्य निष्कारणदयालुत्वं सूचितम् / पूज्यस्य गुर्वादेः निदेशतः स्वाश्रममानिनायानीतवान् // 222 //