________________ 188 शान्तिनाथमहाकाव्यम् षोडशः सर्गः। ____ एतदीदृशं तस्य विद्याधरस्योक्तं प्रतिपद्यमाना स्वीकुर्वती सुमोचिता पुष्पयोग्या पुष्पवकोमलेत्यर्थः अहं कमलावती तेन विद्याधरेण विमोचिता, तथा, वीक्षितसारेषु दृष्टश्रेष्ठष्वपि सार ? श्रेष्ठ ? सर्वश्रेष्ठेत्यर्थः / यद्वा वीक्षितः सारः श्रेष्ठः सारो बलं यस्य तादृशः, एतेन विद्याधरेण वेणुवाद्ये नैपुण्यं कौशलञ्च सुशिक्षिता // 214 // अथ कमलावत्युक्तमुपसंहरति इत्यन्तीति इयन्त्यहानि प्रतिपन्ननिष्ठा, कौमारधारिण्यत एव तस्थौ / . उभे तदन्ये तदनन्तरं स्वं, स्वमेवमेवावदतां तदने // 215 // अत एव कारणात् , इयन्ति एतावत्परिमाणानि अहानि दिनानि यावत् , प्रतिपन्ने प्रतिज्ञाते निष्ठा अवश्यं स्वीकृतं पालनीयमित्येवमास्था यस्याः सा तादृशी प्रतिज्ञापालनपरायणा अत एव कोमारधारिणी कुमारी एव न तु व्यूढा, तस्थावास्थम् , तस्याः कमलावत्याः अन्येइतरे उभे द्वे तदनन्तरं कमलावती पश्चात् तस्य गुणवर्मणोऽग्रे स्वं स्वं, वृत्तमितिशेषः, एवमेवावदतां आवेदयतामेव // 215 // अथ कुमारस्य ततः प्रस्थानमाह--तिनेति तिस्रोऽपि तेन प्रहितास्ततस्ता, निजे निजे सद्मनि संस्तुतेन / स्वयं समारुह्य च तद्विमानं ययौ तया चेटिकया समेतः // 216 // संस्तुतेन परस्परालापद्वारा परिचितेन तेन गुणवर्मणा ततोऽनन्तरम् तास्तिस्रोऽपि रमण्यः निजे निजे समनि प्रहिताः प्रेषिताः, स्वयञ्च तया चेटिकया दास्या समेतः सहितः तत्पूर्वोक्तं विमानं समारुह्य ययौ // 216 // अथ कनकवतीकृततत्प्रशंसनमाह-चेटीति चेटीमुखात् खेटवधं विबुध्य, सेशानकन्याऽपि पति बभाण / न] ननाथ! युक्तं विहितं हितं च, यत्तज्जनोऽनर्थनिबन्धनं नौ // 217 // चेटीमुखात्खेटस्य विद्यारधरस्य वधं विबुध्य ज्ञात्वा ईशानस्य तदाख्यनृपस्य कन्या सा कनकवती अपि पतिं गुणवर्माणं बभाण, किमित्याह-नृनाथ ! नृप ! युक्तमुचितं हितमिष्टं च विहितम्, खेटवधो युक्त इष्टश्चेत्यर्थः कुत इत्याह- यद्यतः तज्जनः स जनो विद्याधरः नौ आवयोः अनर्थस्यानिष्टस्य कामसुखविघ्नस्य निबन्धनं निमित्तमासीदिति शेषः / न नाथ इति पाठे तु न नाथः परो यस्मादित्येवं न शब्देन सह बहुव्रीहिर्बोध्यः, परमनाथ इत्यर्थः // 217 // अथ गुणवर्मोत्तरमाह-अवाचीति अवाचि तेनेन्दुमुखि ! प्रियायाः, कृते न किं वा क्रियते महद्भिः। निजं कलत्रं च परस्य वश्यं, पराभवो दुःसह एष यस्मात् // 118 //