SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अंथ स्वापहारमाह-स्वप्ने इति स्वप्नोऽम्बया यत्कमला व्यलोकि ख्याताऽस्मि नाम्नी कमलावती तत् / अनेन कन्यैव सुखेन सुप्तो-त्पाटय स्वयं कुटिमतोऽपि नीता // 210 // यद्यतः अम्बया मात्रा मयि गर्मस्थायां सत्यामित्यर्थः बलाल्लभ्यते, कमला लक्ष्मीय॑लोकि दृष्टा, तस्माद्धेतोः कमलावती इति नाम्ना ख्याताऽस्मि / कन्या कुमारिका शिशुर्वा एव सुप्ता सत्यहम् , अनेन त्वया हतेन विद्याधरेण स्वयमेव सुखेनानायासेनैव, यद्वा सुखेन सुप्तेति संबंधनीयम् / उत्पाट्य कुट्टिमतः बद्धभूमेः सकाशान्नीताऽपहृता “कुट्टिमं त्वस्य बद्धभूः” इति हैमः // 210 // अथानन्तरवृत्तमाह दन्तैरिति दन्तै रसज्ञामपि खण्डयन्ती, मुमुपुरेतेन दुरात्मनाऽहम् / इत्युद्रुषाऽभाणिषि तद् विमुञ्चे, त्वां चेत् करोपीदमुदाहृतं मे // 211 // अहं मुमूर्षुः मर्तुमिच्छुः दन्तैः कृत्वा रसज्ञां जिह्वामपि यथा मरणं स्यादिति खण्डयन्ती सती उद्रुषा उद्गतक्रोधेन दुरात्मना एतेन हतेन विद्याधरेण इत्यभाणिषि कथिता, इतीति किमित्याह त्वां कमलावतीं तदा विमुञ्चे त्यजामि, चेद्यदि मे मम उदाहृतं कथितमिदं वक्ष्यमाणं करोषि, नान्यथेति भावः // 211 // इदमिति किमित्याह तदिति तत्किं मयैवं परिपृष्ट एष, प्राह स्म पाणिग्रहणं भवत्या / विना निदेश मम नैव कार्य, वर्षनैरप्यतियौवनेऽपि // 212 // तत्तदुक्तं किमित्येवं मया कमलावत्या पृष्ट एष विद्याधरः प्राह स्म, किमित्याह भवत्या * कमलावत्या मम निदेशमाज्ञां विना धनैः बहुभिरपि वर्षैः गतैः, अतियौवनेऽपि पाणिग्रहणं नैव कार्यम् // 212 // ततः किमभूदित्याह ममेति मम प्रसादेन सदा विमानं, मानप्रथं वैक्रियकं तवाऽस्तु / चैत्ये समागम्यमगम्यशक्तेयुगादिदेवस्य ममान्तिकेऽत्र // 213 // मम विद्याधरस्य प्रसादेन तव कमलावत्याः सदैव वैक्रियकं मानप्रथं तदाख्यं विमानमस्तु, तथा, अत्र ममान्तिके समीपे अगम्यशक्तेः अज्ञेयसामर्थ्यस्य युगादिदेवस्य चैत्ये समागम्यमागन्तव्यम् // 213 // अथ वीणाशिक्षामाह तदिति तदुक्तमेतत् प्रतिपद्यमाना, विमोचिता तेन सुमोचिताऽहम् / नैपुण्यमेतेन च वेणुवाद्ये, सुशिक्षिता वीक्षितसारसार // 214 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy