________________ 186 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। विनैव किम् ? अपि तु न, किन्तु द्रौपदीनिमित्तमेव तादृशं सकललोकक्षयकरं महाभारतं जातमिति भावः // 205 // अथ शेषविद्याधरवशीकारमाह-परीति परिच्छदस्तस्य कुमारकस्य, तमेव भीरुः शरणं प्रपेदे। अत्रान्तरे ताः प्रवरा रमण्य-स्तिस्रोऽपि तं राजसुतं समेयुः // 206 // तस्य विद्याधरस्य परिच्छदः परिजनवर्गः कुमारकस्य कुमारसकाशाद्, शेषे षष्ठी, भीरुः भीतः सन् तं कुमारं गुणवर्माणमेव, शरणं रक्षकं प्रपेदे प्रपन्नवान्, अत्रास्मिन्नन्तरेऽवसरे ताः पूर्वोक्ताः प्रवराः उत्तमाः तिस्रः रमण्योऽपि तं राजसुतं गुणवर्माणं प्रति समेयुरागताः // 206 // अथ तासां कुमारप्रशंसनमाह-महेति महानुभावोत्तम ? साधु साधु, त्वयाऽद्य विद्याधरपाशतोऽस्मात् / यद् रक्षिता इत्यधिकं ब्रुवाणा-स्ता भासितास्तेन कुमारकेण // 207 // महानुभावेषु तेजस्विषु उत्तम ? श्रेष्ठ ! कुमार ? साधु साधु पुनः पुनः स्तुत्यो भवानित्यर्थः, तत्र हेतुमाह-यद्यतः त्यया अद्य अस्मात् त्वया हतद्विद्याधरपाशतः निन्द्यविद्याधरतः रक्षिताः इतीत्थमधिकं पुनः पुनः ब्रुवाणास्ता रमण्यः तेन कुमारकेण गुणवर्मणा भाषिताः पृष्टाः // 207 // किं पृष्टा इत्याह-यूयमिति यूयं सुताः कस्य कथं गृहीताः, क्षुद्रेण रौद्रेण बलादनेन ?' इदं निगाद्यं यदि तद् ममागे, सहोदरस्येव विशंसमात्थ // 208 // यूयं कस्य सुताः ? क्षुद्रेण नीचेन रोद्रेण क्रूरेण चानेन मृतेन विद्याधरेण बलाद् बलपूर्वकं कथं केन प्रकारेण गृहीताः ? यदि इदं मया पृष्टं निगाचं वक्तुं योग्यं तत्तर्हि सहोदरस्य सोदरभ्रातुरिव मम गुणवर्मणोऽये विशंसमनाशङ्कम् आशङ्कां विहायेति यावत् , आत्थ कथयत // 208 // अथ तदुत्तरमाह एकैति एकाऽवदत् तासु शुचिस्मितासु, सुतास्म्यहं शङ्खपुराधिपस्य / श्रीदुर्लभस्याश्रितकल्पक्ष-च्छायाभृतो दुर्लभभूमिभर्तुः // 209 // तासु शुचिस्मितासु विशदहासासु एका मुख्या प्रथमा वा अवदत् , किमित्याह--अहंशङ्खपुराधिपस्य आश्रितेषु शरणापन्नेषु कल्पवृक्षस्य छायां प्रतिबिम्बं विभीति तस्य, आश्रितेषु कामितप्रदत्वात्कल्पद्रुकल्पस्य दुर्लभायाः लब्धुमशक्यायाः अत्युत्कृष्टाया इति यावत् , भूमेः भर्तुः श्रीदुर्लभस्य तदाख्यस्य नृपस्य सुता अस्मि // 209 //