________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मथ तयोयुद्धमाह-तत इति ततः सशकं समवेक्षितौ ता-वेकत्र राशाविव जीवशुक्रौ / विद्याधरैरायुधसंविधान-श्चिरं रणं चक्रतुरुग्रबाहू // 202 // ततोऽनन्तरम् एकत्र एकस्मिन् राशौ प्रसिद्ध मेषादिनक्षत्रे जीवशुक्रो बृहस्पतिभार्गवाविव स्थितौ उग्रबाहू बाहुबलभूयिष्ठौ तौ गुणवर्मविद्याधरौ विद्याधरैः सशकं को जेष्यतीति शङ्कापुरस्सर यथास्यात्तथा समवेक्षितौ विलोकितौ सन्तौ आयुधानां संविधानैः सम्यक्प्रयोगैः कृत्वा चिरं रणं युद्धं चक्रतुः // 202 // अथ विद्याधरवधमाह-वरीति वरिष्यते खेचरराजमेव, ध्रुवं जयश्रीरिति खेचराणाम् / यावद् गिरः खेऽपि समुल्लसन्ति, तावत् कुमारेण शिरोऽस्य लूनम् // 203 // जयश्रीः जयलक्ष्मीः ध्रुवं निश्चयेन खेचरराजं विद्याधरेन्द्रमेव वरिष्यति, विद्याधरेन्द्र एवजेष्यतीत्यर्थः / इत्येवं गिरः खेचराणां यावद्यदवधि खे आकाशे समुल्लसन्ति निःसरन्ति तावत्तदवध्येव कुमारेण गुणवर्मणा अस्य विद्याधरेन्द्रस्य शिरो लूनम् छिन्नम् , हतः स इत्यर्थः // 203 // . . विद्याधरवधप्रकारमाह-पौरोगव इति / पौरोगवः सूरणकन्दकस्य, यथैव खण्ड द्वितयं कृपाण्या / - निशातधारेण तथाऽसिनैव, चक्रे कुमारः स च खेचरस्य // 204 // यथैव येन प्रकारेणैव पौरोगवः पाकागारिकः कृपाण्या लघुकर्तरिकया सूरणस्य तन्नाम्नः कन्दकस्य खण्डद्वितयं भागद्वयं करोतीति शेषः तथा तेन प्रकारेणैव स कुमारो गुणवर्मा च निशितधारेणातितीक्ष्णेनासिना खड्गेन खेचरस्य विद्याधरेन्द्रस्य चक्रे खण्डद्वितयमिति सम्बध्यते अल्पप्रयासेनैव गुणवर्मणा खेचरो हत इति यावत् // 204 // ननु पातकमिति चेत्तत्राह-कुर्वन्तीति कुर्वन्ति किं नाम न दुष्कराणि, नराः प्रियाथै विषयोपतप्ताः ? रामोऽम्बुधिं किं न बबन्ध सीता-कृते महाभारतमन्यथा किम् ? // 205 // विषयेण उपतप्ताः पीडिताः विषयप्राप्तावुत्कटेच्छावन्त इति यावत् , नराः प्रियार्थ प्रियाप्राप्यर्थे, प्रियामुद्दिश्य यथास्यात्तथा वा, किंनाम दुष्कराणि न कुर्वन्ति ? अपि तु सर्वाणि दुष्कराण्यपि कुर्वन्त्येवेत्यर्थः / तत्र दृष्टान्तमाह रामः प्रसिद्धो दाशरथिः सीतायाः स्वभार्यायाः कृते निमित्तमम्बुधिं समुद्रं न बबन्ध किम् ? अपि तु बबन्धैव, समुद्रबन्धनात्मकमतिदुष्करमपि कर्म प्रियार्थं कृतवानेवेति भावः / महाभारतं तदाख्यं प्रसिद्धं युद्धम् अन्यथा प्रियानिमित्तं 'शा० 24