________________ __ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / इत्युद्धतां वाचमुदीरयन्ती-मिमां स खड्गेन लुनाति यावत् / तावत् कुमारोऽयमभूत् पुरस्तात्, तस्यैव कृष्टासिरतिप्रकृष्टः // 198 // देवस्य युगादिनाथस्य पादान् चरणान् सततं नत्वापत्काल एव स्मरामि, अपरस्य कस्यचिन्न तथा गुणवर्मसंज्ञं कुमारं मुक्त्वा अन्यं शरण्यं रक्षकं न समाश्रयामि, इतीत्थमुद्धताम् उच्छृखलां वाचमुदीरयन्तीमुच्चारयन्तीमिमां दासी स विद्याधरः खड्गेन यावल्लुनातिछिन्नत्ति तावच्चायं कुमारो गुणवर्मा अति प्रकृष्टोऽतिबलवान् कृष्टासिरुद्यतासिः सन् एव तस्य विद्याधरस्य पुरस्तादग्रतोऽभूत् // 197 // // 198 // // युग्मम् // अथ कुमारोक्तिमाह पवमिति- एवं बभाषे स च खेचरं तं, दोर्दण्डकण्डूमपनेतुमिच्छुः। ... रणेन तेनैव वराक ! गेहे, नर्दिन्नरे ! स्त्रीषु पराक्रमस्ते // 199 // तेन खेचरेण सहैव रणेन दोर्दण्डयोः बाहुदण्डयोः युद्धेन कृत्वा कण्डूं खजूं युद्धाभिलापमित्यर्थः अपनेतु दूरीकर्तुम् पूरितुमिति यावत् इच्छुः सन् स कुमारश्च तं खेचरं एवं बभाषे एवमिति किमित्याह -अरे ! वराक ! दुर्जन ! गेहे नर्दिन् ! न तु बहिः तादृशपराक्रमाभावादिति साभिप्रायोक्तिः / ते तव स्त्रीष्वेव पराक्रमः, न तु पुरुषेषु, दुर्जनानां मिथ्याबलाभिमानिनामन्यत्रावसराभावादिति भावः // 199 // . स्त्रीषु शस्त्रप्रवृत्ति निन्दन्नाह उन्मत्तेति- . उन्मत्तबालाऽर्भकवृद्धमत्त-प्रमत्तरोगार्तनिरायुधानाम् / वधाय धावन्ति गृहीतशस्त्रा,ये केऽपि तेषां किल जीवितं धिक् // 20 // ये केऽपि दुर्वृत्ताः उन्मत्तानाम् भ्रान्तचित्ततया प्रतिकर्तुमसमर्थत्वादयोग्यानाम् बालानां प्रथमवयःस्थानामप्राप्तविद्यानाम् स्वभावत एवाकुशलानाम् अबलाजनानां वा अर्भकाणां बलबुद्धिशस्त्राद्ययोग्यानां शिशूनान् वृद्धानां गतबलानां शिथिलेन्द्रियाणाम् मत्तानां प्रमत्तानां रोगार्तानाम् निरायुधानाम् च वधाय गृहीतशस्त्राः सन्तो धावन्ति,तेषामन्यायिनां जीवितं धिङ् निन्दितं किल प्रतीकारासमर्थे शस्त्रप्रवृत्तिर्न वीरयोग्येति भावः // 20 // अथ विद्याधरसरम्भमाह तदिति तदनतस्त्वं मम तिष्ठ तिष्ठे-त्युदीरयन्तं क्षितिपालपुत्रम् / दासी विमुच्यैष समाजगाम, पुरः स्वपाणौ निदधत् कृपाणम् // 201 // तत्ततो हेतोः त्वं विद्याधरः मम त्वत्प्रतिभटस्य योग्यस्य गुणवर्मणोऽग्रतः तिष्ठ तिष्ठ ! इतीत्थमुदीरयन्तं भर्त्सयन्त क्षितिपालपुत्रं गुणवर्माणं प्रति एष विद्याधरः स्वपाणौ कृपाणं खड्गं निदधद् दासी विमुच्य त्यक्त्वा पुरोऽग्रतः समाजगाम // 201 //