________________ wwwwwwwwwwwwmom आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् भोः खेचराः अद्य अगण्यपुण्याः अमितपुण्यवन्तः यूयम् जिनेश्वरस्य युगादिनाथस्य स्नानमभिषेकं विधद्ध्वम् कुरुध्वम्, ननु भवान् किं करिष्यतीति चेत्तत्राह-अहं विद्याधरेन्द्रस्तु तस्याः कनकवत्याः द्वेधा बुद्धिकृतस्य स्वशरीरकृतस्य च मान्यस्य जडताया अस्वस्थतायाश्चापगमं प्रतिकारं करोमि मन्दबुद्धिमान्यव्याजान्नायातेति तां दण्डयामीतिस्वाभिप्रायोक्तेः परिकरालङ्कारः / / 193 // अथाग्रिमं खेचरकृत्यमाह-प्रेष्यामिति प्रेष्यां विकृष्य स्वकरेण वेण्या, बभाण खेटः स रुषाऽरुणाक्षः / निर्वातु पूर्व मम रोपवहि-स्तवाऽसृजा दासि ? विनाशितायाः // 194 // स खेटो विद्याधरः रुषा अरुणाक्षः सन् स्वकरण प्रेष्यां दासी वेण्या कृत्वा वेणी गृहीत्वेत्यर्थः विकृष्याकृष्य बभाणोचे, किमित्याह-दासि ! पूर्वमादौ मम रोषवह्निः क्रोधाग्निः विनाशिताया हतायास्तव दास्या असृजा रक्तेन निर्वातु शाम्यतु, त्वां हन्मीति यावत् // 194 // अथ दासीकृतोत्तरमाह-सेति सा धैर्यमालम्ब्य जगौ विधेहि, तवोचितं यद् रुचितं च यत् ते। अस्मादृशां स्तोकमिदं न किंवा, युष्मादृशोपासनललासानाम् ? // 195 // सा दासी धैर्यमालंब्य जगौ, किमित्याह यत्तव विद्याधरेन्द्रस्योचितं स्वरूपयोग्यम् स्त्रियोऽवध्यत्वात्तत्र तव प्रवृत्तिः दुर्जनोचितेति काकुरिति भावः / यच्च ते तुभ्यं रुचितमिष्टं तद्विधेहि युष्मादृशानां दुर्जनानामुपासने सेवने लालसानां साभिलाषाणामस्मादृशां मन्दभाग्यानामिदं वधादि स्तोकमल्पमेव किं न ? अपि त्वल्पमेवत्यर्थः दुर्जनसेवकानां वध उचित एवेति भावः अत्रापि पूर्ववत्परिकराऽलङ्कारः // 195 // .' अथ विद्याधरोक्तिमाह सेति स चाब्रवीत् तां ग्रहिले किमेतद्,ब्रवीषि कालप्रतिमस्य मेऽग्रे ? / त्वमिष्टदेवं स्मर चैकताना-शरण्यमन्यं यदि वा श्रयस्व // 196 // तां दासी प्रति स विद्याधरश्चाब्रवीत् , किमित्याह अहिले ! मत्ते ! दासि ! कालप्रतिमस्य प्राणापहारकत्वादन्तकतुल्यस्य मे मम विद्यधरस्याग्रे एतदुक्तप्रकारं किं ब्रवीषिः नैवमुक्त्या त्वत्त्राणमिति भावः, तदेवाह- एकताना एकाग्रचित्ता सति स्वमिष्टं देवं स्मर, यथा स प्रसद्य त्रायेतेति भावः, यदि वाऽन्यं स्वेष्टदेवान्यं शरण्यं रक्षकं श्रयस्व न च तावताऽपि त्वत्राणमिति साभिप्रायोक्तिः // 196 // अथ दासीप्रतिवचनमाह देवस्येति देवस्य पादान् सततं स्मरामि,युगादिनाथस्य न चापरस्य / अन्यं शरण्यं न समाश्रयामि,मुक्त्वा कुमारं गुणवर्मसंज्ञम् // 197 //