________________ 182 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / एवं कृतेऽन्यदपीष्टं सिद्धयेदित्याह प्रेति प्रकुर्वती त्वेवमहं तदीयं, ज्ञास्याम्यभिप्रायमपि प्रकृत्या / ईदृक् तु युक्तं विनिशम्य सम्यक, सा राजकन्या दिशति स्म तां च // 189 // एवं त्वित्थं प्रकुर्वती तत्प्रश्नस्यैवं प्रकारेणोत्तरं ददत्यहं दासी प्रकृत्या तदाकारेङ्गितेन तदीयं विद्याधरस्याभिप्रायमपि ज्ञास्यामि ईदृगुक्तप्रकारं युक्तं युक्तियुक्तं विनिशम्य तु सा राजकन्या कनकवती तां दासी सम्यग् दिशति आज्ञापयति स्म च // 189 // अथ दासीकुमारयोविमानरोहणमाह-अथेति अथ क्षणात् तद्विहिते विमाने, समारुहोह प्रयता भुजिष्या / मारोहकारी स कुमार एव, तस्यैकदेशं स तथैव भेजे // 19 // अथानन्तरम् क्षणात् तया कनकवत्या विहिते विकृते विमाने भुजिष्या दासी प्रयता सावधाना सती समारुरोह मायाः लक्ष्म्याः आरोहकारी अतिशायकः विशिष्टलक्ष्मीसम्पन्नः स कुमारो गुणवर्मा एव च तथैव पूर्ववदेव तस्य विमानस्यैकदेशं भेजे विमानैकदेशे क्वचित्कोणे स्थितवान् अत्र श्लोके स स इति पुनरुक्तपाठः मया तु एकत्र चकारमाश्रित्य व्याख्यातम् // 190 / / अथ विद्याधरप्रश्नमाह-प्रेष्यामिति प्रेष्यां समीक्ष्योपगतां स तत्र, विद्याधरोऽपृच्छदतुच्छदर्पः / न स्वामिनी ते कथमागताऽद्य, श्रुत्वेति सोवाच वचस्विनी तम् ? // 191 // अतुच्छदर्पोऽत्यभिमानी स विद्याधरः तत्र जिनालये प्रेष्यां दासीमेकाकिनीमेवोपगतामागतां समीक्ष्य अपृच्छत् किमित्याह-अद्य ते स्वामिनी कनकवती कथं नागता, इतीत्थं श्रुत्वा वचस्विनी वाक्पटुः सा दासी तं विद्याधर प्रत्युवाच // 191 / / तदुक्तिमेवाह-नेति न स्वामिनी स्वामिसमीपमागाद्, यदद्य तद्वमणि पाटवं न / भूभङ्गभीमं विदधत् क्रुधाऽऽस्य, ततो बभाषे स च खेचरेन्द्रः // 192 // स्वामिनी कनकवती स्वामिनः तव विद्याधरेन्द्रस्य समीप नागात् तत्र हेतुमाह-यद्यतोऽद्य तस्याः कनकवत्याः वर्मणि शरीरे "शरीरं वर्म विग्रहः” इत्यमरः पाटवं स्वस्थता न, नह्यस्वस्थेन शरीरेण कोऽपि क्वापि गन्तुं प्रभवतीति भावः, ततस्तदुत्तरं श्रुत्वा स खेचरेन्द्रश्च क्रुधा क्रोधेनास्यं मुखं भ्रुवो भङ्गेन कौटिल्येन भीमं भयङ्करं विदधत्सद् बभाषे // 192 // तद्भाषणमेवाह भोः इति भोः खेचराः यूयमगण्यपुण्या, युगादिनाथस्य जिनेश्वरस्य / स्नानं विधद्ध्वं त्वहमद्य तस्या, द्वेधाऽपि मान्द्यापगमं करोमि // 193 //