SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 181 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / ननु अज्ञानकृतस्य शाने सति परिहार एव प्रतीकार इति चत्तत्राह-प्राणेति पाणपियोऽयं मम चाहमस्य, प्राणप्रिया रूपगुणानुरूपा / अवैमि तन्नेदमहं यदस्य, जय्योऽस्ति वा नैव स खेचरेन्द्रः // 185 // अयं गुणवर्मा मम कनकवत्याः प्राणप्रियः रूपैर्गुणैश्च कृत्वाऽनुरूपा योग्या अहं कनकवती चास्य गुणवर्मणः प्राणप्रिया ननु तर्हि तादृशशपथत्यागे कोऽन्तराय इति चेत्तत्राह-अहं कनकवती तदिदं नावैमि जानामि, इदमिति किमित्याह यत् स खेचरेन्द्रः अस्य मम पत्युः जय्यः जेतुं शक्योऽस्ति न वाऽथवा नैव, एतदज्ञानेऽपि शपथत्यागेऽनिष्टस्यापि सम्भवादिति भावः // 185 / / तस्य जय्यत्वे स्वेष्टसिद्धिमाह-यदीति यद्यायपुत्रस्य भवेत् स जय्यो, मनोरथास्तद् मम पूरिताः स्युः / अथाऽन्यथा देवमिदं विधत्ते, तद् व्योमपुष्पायितमेव भूयात् // 186 // यदि आर्यपुत्रस्य मम पत्युर्गुणवर्मणः स विद्याधरेन्द्रः जय्यो भवेत् तत्तर्हि मम कनकवत्याः मनोरथाः कामसुखाद्यभिलाषाः पूरिताः स्युः अथ अथवा दैवं भाग्यमिदं स्वेष्टं अन्यथा स्वमनोरथविपरीतं विधत्ते, यदि दैववशात् स मम पत्युः जय्यो नास्ति, तत्तर्हि तन्मम स्वेष्टं व्योमपुष्पायितं व्योमपुष्पवदेव कृतं स्यात् अपूर्णमेव तिष्ठेदित्यर्थः // 186 // अथात्र दासीदत्तमन्त्रमाह-इत्यादिकमिति इत्यादिकं तां पुनरुक्तयन्ती, प्रेष्याऽब्रवीत् स्वाभिमतं हितं च। गृहाधिदेवीव गृहेऽद्य तिष्ठ, त्वं स्वामिनीहैमि विशिष्य तत्र // 187 // इत्यादिकमुक्तप्रकारं तां दासी प्रति पुनरक्तयन्ती पुनः पुनः कथयन्ती तां कनकवतीं प्रेष्या दासी स्वस्य अभिमतं सम्मतं हितं पथ्यं चाब्रवीत्, किन्तदित्याह-स्वामिनि ! त्वं कनकवती अद्य गृहाधिदेवीव गृहदेवतेव इह गृहे तिष्ठ, तत्र जिनालये अहं दासी विशिष्य वेशभूषादिना विशिष्य भूत्वा एभि यामि // 187 // ननु तत्र यदि मदीया पृच्छा स्यात्तदा किं स्यादिति चेत्तत्राह-त्वदिति त्वत्स्वामिनो किं न समागताऽये-त्येवं यदि प्रक्ष्यति मां स खेटः / तदा तदग्रे विदधे पुराऽह-मप्युत्तरं ते वपुषः सरुक्त्वम् ? // 188 // यदि स खेटः विद्याधरः अद्य त्वत्स्वामिनी कनकवती किं कुतो हेतोर्न समागतेत्येवं मां दासी प्रक्ष्यति तदा तस्य विद्याधरस्याने अहं दासी अपि ते तव कनकवत्याः वपुषः सरुक्त्वमस्वस्थता एवोत्तर पुरा विदधे विधास्यामि, पुरा योगे वर्तमानेति बोध्यम् // 188 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy