________________ 180 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / वपि अग्निस्नाने कृतेऽपि शुद्धिः पातिव्रत्यं नास्ति पतिव्रताया भूषणस्य पत्यन्यपुरुषप्राप्तिः संशयस्थानमिति गूढाशय इति भावः // 180 / / अथ तस्या लज्जामाह-इतीति इति प्रकाश्यैवमवाङ्मुखी सा, द्वेधा विवेकापगमाद् बभूव / अथावनीवासवनन्दनस्तां, प्रसाध वाक्यैर्मधुरैस्ततोऽगात् // 181 // इत्युक्तप्रकारेण प्रकाश्य उक्त्वा ‘सा कनकवती विवेकापगमादनौचित्यसमाचाराद्धेतोः द्वेधा वचसा मुखेन चावाङ्मुखी नम्रसुखी अनुत्तरा च बभूव / लज्जया नम्रमुखी रहस्यभङ्गादनुत्तरेत्यर्थः / अथानन्तरमवनीवासवनन्दनो गुणवर्मा तां कनकवतीं मधुरैः वाक्यैः प्रसाद्य ततः स्थानादगात् // 181 // अथ कुमारस्य पुनः कनकवती भवनागमनमाह-स्नानेति स्नानाशनादीनि वितत्य कृत्या न्ययं तथैवेत्य पुनर्निशायाम् / इमां समालोकत हा ! विलक्षां, प्रेष्याद्वयेनेतिकथाप्रसक्ताम् // 182 // अयं गुणवर्मकुमारः स्नानाशनार्दानि कृत्यानि वितत्य समाप्य तथैव पूर्ववदेव निशायां रात्रौ पुनः एत्य आगत्य, हा खेदे प्रेष्याद्वयेन दासीद्वयेन सह इति वक्ष्यमाणप्रकारेण कथाप्रसक्ताम् वार्तालापसंलग्नां विलक्षां खिन्नामिमां कनकवतीं समालोकत दृष्टवान् // 182 // का सा कथेत्याह-अहमिति अहं हले ! किं विदधेऽतिमन्द-भाग्योदयानेन विधापिता यत् / एतं कनीत्वे शपथं कथञ्चिदू, विद्याधरेन्द्रेण दुराशयेन // 183 // हले ! दासि ! यत् अनेन बुद्धिस्थेन दुराशयेन दुष्टेन विद्याधरेन्द्रेण कनीत्वे कन्याऽवस्थायां कथञ्चिदेतं वक्ष्यमाणप्रकारं शपथं प्रतिज्ञां विधापिता कारिता, अतोऽहं अतिमन्दः भाग्योदय यस्याः सा तादृशी किं विदधे कुर्वे // 183 // कोऽसौ शपथ इत्याह-ममेति ममानिदेशेन कदाचनाऽपि, काम्यो भवत्या न निजोऽपि भर्ता / / भयं दधत्या मयकाऽपि तस्मा-दिदं वचः स्वीकृतमल्पबुद्धया // 184 // भवत्या कनकवत्या मम विद्याधरेन्द्रस्य अनिदेशेन निदेशं विना कदाचनापि निजः भर्ताऽपि अन्यस्य तु कथैव केति भावः / न काम्यः कामसुखाय श्रयणीयः / ननु त्वया ईदृशः शपथो न स्वीकर्तुमुचित इति चेत्तत्राह-मयका मया कनकवत्याऽपि तस्माद्विद्याधरेन्द्रात्सकाशात् भयं दधत्या सत्याऽल्पबुद्धया मन्दमतित्वाद्धेतोः इदमुक्तप्रकारं वचो वचनं स्वीकृतम् // 184 //