SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / 179 - एषः प्रिय एव गुणवर्माऽपि विखिन्ननेत्रः रात्रिजागृतवदलसनेत्र एवं द्वितीयं दिनं परदिवसे जिनालयगमनात् परदिवसे इति यावत् अत्र मद्भवने समुपैति आगच्छति, तत्ततः अहं कनकवती हहा इति खेदे निरुत्तरा उत्तरं दातुमसमर्था सती जडाशयानामपि साधारणजनानामपि किम्पुनः शिष्टानां विगेया निन्दनीया भविष्यामि पत्युरुचितोपचाराकरणादितिभावः // 176 // ___ अथ तस्या उक्तिमाह-चिरमिति चिरं विचिन्त्येति नरेन्द्रपुत्री, प्रोचे प्रिय ! क्वास्ति स बाहुरक्षः ? / आदेशतस्तस्य स मन्त्रिपुत्रः, समर्पयामास तमेव तस्यै // 177 // इत्युक्तप्रकारेण चिरं विचिन्त्य नरेन्द्रपुत्री कनकवती प्रोचे किमित्याह प्रिय ! स बाहुरक्षोऽङ्गदः क्वास्ति ? तस्य गुणवर्मणः आदेशतः स मन्त्रिपुत्रः मतिसागरः एव तस्यै कनकवत्यै तमङ्गदं समर्पयामास // 177 // अथ कुमारकृतपतनस्थानमाह अवादीति अवादि भूपालसुतेन भूयः, क कान्तिकान्ते पतितस्तवायम् / तयाऽभ्यधायि स्वयमेव चास्य, पातं न जानाति किमार्यपुत्रः ? // 178 // भूपालसुतेन गुणवर्मणा भूयः पुनरवादि पृष्टम् किमित्याह कान्त्या रुच्या कृत्वा कान्ते कमनीये तव कनकवल्या अयमङ्गदः क्व स्थाने पतितः ? / तया कनकवत्या अभ्यधायि उत्तरितम्, किमित्याह आर्यपुत्रः स्वयमेव चास्याङ्गदस्य पातं पतनस्थानं न जानाति किम् ? अपि स्ववश्यं जानातीत्यर्थः एवञ्च मया तत्स्थानकथनेनालमिति भावः // 178 // अथ कुमारकृतोत्तरमाह-जानामीति• जानामि नाहं मम चापरेण, त्वद्वाहुरक्षश्च समर्पितोऽयम् / ___ इतीरयन्तं तमुवाच साऽपि, प्रियोत्तरेणाऽलमनुत्तरेण // 179 // ___ अहं गुणवर्मा न जानामि अङ्गदपतनस्थानमिति शेषः ननु तर्हि कथं प्राप्त इति चेत्तत्राह अयं त्वबाहुरक्षोऽङ्गदः अपरेणान्येन पुरुषेण मम समर्पितो दत्तः / इतीत्थमीरयन्तं कथयन्तम् गुणवर्माणं सा कनकवत्युवाच, किमित्याह-प्रिय ! अनुत्तरेण पूर्वोक्तेण उत्तरेण अलम् पर्याप्तम्, त्वं स्वयमेव जानासीति पूर्वोक्तमेवोत्तरमित्यन्येनालमित्यर्थः // 179 / / अथ तदापत्तिमाह त्वयेति त्वया यदि स्वेन युगं तदाऽऽप्तं, ममाङ्गदः किंङ्किणिका च तत् सद् / अथापरेण प्रतिपादितं ते, तदा ममाऽनावपि नास्ति शुद्धिः // 180 // यदि त्वया गुणवर्मणा स्वेनात्मनैवा तत्किङ्किणिकाऽङ्गदं च युगं द्वयमाप्तं तदा सदुत्तमं जातं, अथ पक्षान्तरे, अपरेण पुरुषेण ते तव तवयं प्रतिपादितं दत्तं चेत्तदा मे ममाग्ना
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy