________________ 178 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ तयोरपरमपि प्रश्नोत्तरमाह किञ्चेति किञ्चापरं किञ्चन ते प्रणष्टं, मयाऽपि तत्स्थानमवेक्षितं च / अजानती सा तमपृच्छदेवं, तत् किं स च माह भुजाङ्गदस्ते // 172 // किश्च अपरञ्च अपरमन्यदपि किश्चन ते प्रणष्टमस्ति मया मतिसागरेण च तस्यान्यस्य त्वद्वस्तुनोऽपि स्थानमवेक्षितम् / सा कनकवती अजानती अजानाना सति किं तन्मम पतितं वस्त्वित्येवमपृच्छत् स मतिसागरश्च प्राह किमित्याह ते तव भुजाङ्गदः इति // 172 // क्वास्ते तदिति चेत्तत्राह अवापीति अवापि तद् येन ममापि तेन, समर्पितं तर्पितकोविदेन / इदं निशम्याऽवनिपालकन्या, स्वचेतसा चिन्तयति स्म चैवम् // 173 // तत्पतितस्ते भुजाङ्गदः येनावापि प्राप्तः तर्पितकोविदेन सन्तोषितविज्ञेन विद्वज्जनप्रियेण' तेन पुरुषेण मम समर्पितं दत्तमपि, इद मतिसागरोक्तं निशम्य अवनिपालकन्या राजपुत्री कनकवती स्वचेतसा एवं वक्ष्यमाणप्रकारेण च विचिन्तयति स्म // 173 // . तस्याश्चिन्तनमेवाह शानादिति ज्ञानादयं तद्वितयप्रपात-स्थानं विजानाति न तद् विचित्रम् / चित्रं तदेतद् मम मानसस्य, जज्ञेऽपि यद् द्वैतमिदं करस्थम् // 174 // अयं मतिसागरः ज्ञानात् ज्ञानप्रभावाद् तस्य द्वितयस्य किङ्किण्या अगदस्य प्रपातस्य पतनस्य स्थानं विजानाति तज्ज्ञानं विचित्रमाश्चर्यकरं न ज्ञानप्रभावादतीतस्यापि ज्ञानसंभवादिति भावः, ननु तर्हि किं चित्रमिति चेत्तत्राह मम मानसस्य एतच्चित्रमाश्चर्यम् यत्तदङ्गदः करस्थमपि द्वैतं संशयास्पदं जातम्, तदेव चित्रमित्यर्थः // 17 // अथ तस्या अग्रिमवितर्कमाह तदत्रेति तदत्र केनापि हि कारणेन, भाव्यं ध्रुवं साम्प्रतमन्यथा न / अदृश्यताप्राप्तिमृते तु तत्र, स्वयं समायाति कथं प्रियोऽपि // 175 // तत्करस्थमपि द्वैतमजनीत्यतोऽत्र विषये साम्प्रतं केनाप्यज्ञातेन कारणेन हि ध्रुवमवश्यं भाव्यम्, अन्यथा प्रकारान्तरं न नास्ति, प्रियागमनं जिनालये सन्देग्धि अदृश्येति प्रियः गुणवर्माऽपि तत्र देवजिनालये अदृश्यताप्राप्तिम् अदृश्यशरीरतालब्धिमृते विना स्वयं कथं समायाति गन्तु प्रभवति ? नैव प्रभवतीत्यर्थः // 175 // अपरमपि तस्याः चिन्तितमाह दिनमिति दिनं द्वितीयं समुपैति चात्र, विखिन्ननेत्रप्रिय एष एव / जडाशयानामपि तद् विगेया, हहा ! भविष्यामि निरुत्तराऽहम् // 176 //