________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 177 __तया कनकवत्या जगे उक्तम्--किमित्याह-तहि मे मम कनकवल्याः पुरस्त्वया मतिसागरेण एषा किङ्किणी क्व नाम पतिता, निवेद्यताम् कथ्यताम् / स मतिसागरोऽपि कुमारस्य गुणवर्मण आशयमाभिप्रायं बुद्ध्वा वाऽभिलक्ष्य आह - किमित्याह - बुद्धः ज्ञातवृत्तान्तः सन् प्रभाते अदः त्वत्प्रश्नोत्तरं कथयिष्यते, मयेति शेषः // 167 / / अथ पुनरपि कुमारस्य जिनालयगमनमाह पूर्वेति. पूर्वक्रमेणाऽवनिपालपुत्रः, समं स्ववध्वा दिवसेऽपि तत्र / विमानमास्थाय समानधामा, जिनालयं प्रास्थित तं लयेन // 168 // पूर्वक्रमेण पूर्ववत् समानधामा माननीयतेजाः अवनिपालपुत्रः राजपुत्रो गुणवर्मा तत्र तस्मिन् दिवसेऽपि स्ववध्वा कनकवत्या समं विमानं गुप्तरीत्या आस्थायारुह्य लयेन रसात् तं प्रागुक्तं जिनालयं प्रति प्रास्थित प्रस्थितवान् // 168 // अथ तस्याः सुवर्णाङ्गदापहारमाह तस्येति / तस्यास्तदा वैणिकतां श्रयन्त्याः , स्रस्तः सुवर्णाङ्गद एव तत्र / क्षिप्रं कुमारेण स किङ्किणीवत्, प्रच्छन्नमादीयत कौशलेन // 169 // तदा तत्र जिनालये वैणिकतां वीणावादनं श्रयन्त्याः कुर्वन्त्यास्तस्याः कनकवत्याः स्रस्तः पतितः सुवर्णास्याङ्गदो बाहुभूषणम् / कुमारेण गुणवर्मणा कौशलेन चातुर्यपूर्वक किङ्किणीवत् क्षिप्रं शीघ्रं प्रच्छन्नं गुप्तरीत्या यथा नान्यो लक्षयेदित्येवमादीयत गृहीतः // 169 // _अथ पुनरपि कुमारस्य कनकवतीभवनगमनमाह विमानेति - विमानमारुह्य तथैव पूर्व-क्रमेण ते स्थानमथाऽऽययुः स्वम् / प्रातः कुमारः सुहृदे समय, स्वर्णाङ्गदं तद्भवनं समागाद् // 170 // अथानन्तरं नृत्यसमाप्तौ तथैव पूर्वक्रमेण पूर्ववत् ते कुमारादयः विमानमारुह्य स्वं स्थानमाययुः कुमारः गुणवर्मा प्रातः स्वर्णाङ्गदं सुहृदे मित्राय मतिसागराय समर्म्य दत्त्वा तस्याः कनकवत्याः भवनं समागात् समागतवान् // 170 // अथ कनकवत्याः पुनः प्रश्नमाह भयादिति भयात् तयाऽप्रच्छयथ मन्त्रिपुत्र-स्तत्किङ्किणीवृत्तमवृत्तपूर्वम् / स प्राह तत्किङ्किणिकानिपात-स्थानं मया नेत्रपथेऽध्यरोपि // 171 // अथ कुमारागमनानन्तरं तया कनकवत्या भयाद्रहस्यभङ्गभिया मन्त्रिपुत्रः मतिसागरः अवृत्तपूर्वम् अभूतपूर्वम् किङ्किणीवृत्तं तन्निपातस्थानादिरूपमपृच्छि पृष्टः स मतिसागरः प्राह, किमित्याह मया मतिसागरेण तस्याः किङ्किणिकाया निपातस्थानं नेत्रपथेऽध्यरोपि कृतमित्यर्थः ' दृष्टिगोचरीकृतमित्यर्थः // 171 // - शा. 23