________________ 176 श्रीशान्तिनाथमहाकाव्यम्-पषोडशः सर्गः / अथ किङ्किणीदानमाह विज्ञायेति विज्ञाय कौमारमतं स विज्ञ--स्तां किङ्किणी मन्त्रिसुतो मुमोच / / इमां स्वकीयामुपलक्ष्य लक्ष्यां, लक्ष्यैरथाऽवादि तया सुदत्या // 163 // स विज्ञः धीमान् गुणवर्ममित्रम् मन्त्रिसुतः कौमारं गुगवर्मणां मतमाशयं विज्ञायोपलक्ष्य तां पुरा कुमारदत्ता किङ्किणी मुमोच ददौ लक्ष्यां दर्शनीयां इमां किङ्किणी स्वकीयां ममेयमित्येवं लक्ष्यैः चित्तरुपलक्ष्य परिचित्य अथानन्तरम् तया सुदत्या शोभनदन्तया कनकवत्या अवादि // 163 // किमवादीत्याकाङ्क्षायामाह-मदिति मच्छ्रोणिसूत्रात् पतिता कुतोऽसौ, प्रापि त्वया पापविनाकृतेन ? / ' अथो कुमारेण जगे मृगाक्षि !, निवेद्यतामित्यपतत् क चैषा ? // 164 // मम श्रोणिसूत्रात्कटिसूत्रात्पतिता असौ किङ्किणी पापविनाकृतेन पुण्यात्मना . त्वया / पुण्यात्मत्वाच्चौर्यादिप्रकाराभावे कुतः प्रकारात्यापि ? इति वदेति शेषः / अथो अनन्तरम् कुमारेण गुणवर्मणा जगे कथितम्, किमित्याह-मृगाक्षि ? एषा किङ्किणी क्व अपतदिति निगद्यताम् ? // 165 // अथ कनकवत्या उत्तरमाह-पपातेति पपात कुत्रेयमिति स्वतोऽहं, न वेद्मयनाभोगवशादवश्यम् / तया विचिन्त्येत्युदिते कुमारः, पुनर्जगौ हास्यविभासितौष्ठः // 165 // तया कनकवत्या विचिन्त्य इयं किङ्किणी कुत्र स्थाने पपात पतिता इतीदमनाभोगवशादननुसन्धानाद्धेतोरहमवश्यं निश्चयतो न वेद्मीतीत्थं स्वतः स्वयमेवोदिते कथिते पुनः हास्येन विभासितोष्ठः विकसितौष्ठः सन् कुमारः गुणवर्मा जगौ कथितवान् // 165 / / . किं कथितवानित्यपेक्षायामाह-नैमीति नैमित्तिकोऽयं मतिसागरो मे, प्रिये ! वयस्यः परिपृच्छ्यतां ज्ञः, / अस्या निपातास्पदमात्तलील-मयं विदा प्राप्स्यति भास्वरेण // 166 // प्रिये ! ज्ञः विद्वान् नैमित्तिकः निमितज्ञः मे मम वयस्यः मित्रमयं समक्षस्थितो मतिसागरः परिपृच्छ्यताम् अयं मतिसागरः भास्वरेण उज्ज्वलेन विदा ज्ञानेन आत्तलीलमनायासमेवास्याः किङ्किण्याः निपातस्य पतनस्यास्पदं स्थानं प्राप्स्यति ज्ञास्यति ज्ञात्वा कथयिष्यतीति यावत् अत्र विच्छब्दविशेषणस्य भास्वरशब्दस्यास्त्रीलिङ्गत्वं चिन्त्यम्, विच्छब्दस्य भावाविच प्रत्ययान्तस्य स्त्रीत्वादिति ध्येयम् // 166 // अथ कनकवतीप्रश्नमाह-तयेति तया जगे तर्हि निवेद्यतां मे, पुरस्त्वयैषा पतिता क्य नाम ? / . बुद्ध्वा कुमाराशयमाह सोऽपि, बुद्धः प्रभाते कथयिष्यतेऽदः // 167 //