________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 175 ___ कुमारेषु वीरः गुणवर्माऽपि पुरावत्पूर्ववत् रभसाद् झटिति एतमुक्तं विमानस्य भागं प्रदेशं बभाज शिश्राय ते कनकवतीकुमारादयः सर्वेऽपि महारयेण महावेगेन तेन विमानेनैव द्वारा आत्मनः स्वस्य स्थानं समायासिषुरागतवन्तः // 158 // ___ अथ कुमारस्य शयनमाह अलेति. अलक्षितः प्रेष्यजनैः कुमारः, स्वमन्दिरं पाप्य सहेमकुम्भम् / पल्यङ्कमाश्रित्य सुपुष्पगंध, शेषां त्रियामां गमयाम्बभूव // 159 // कुमारो गुणवर्मा प्रेष्यजनैः भृत्यवगैरलक्षितोऽदृश्य एव सहेमकुम्भम् सुवर्णघटशोभित स्खं मन्दिरं गृहं प्राप्यागत्य सपुष्पगन्धं पुष्पामोदचारुपल्यङ्कमाश्रित्य शेषामवशिष्टां त्रियामां रात्रि गमयाम्बभूव व्यतीयाय // 159 // अथ मन्त्रिपुत्राय किङ्कणीदानमाह अमात्येति अमात्यपुत्राय निजाय सख्ये, यथार्थनाम्ने मतिसागराय / तां किङ्किणी पाणिगतां विधाय, शिक्षां ददौ राजसुतः स एवम् // 160 // स राजसुतो गुणवर्मा अमात्यपुत्राय निजाय सख्ये मित्राय यथार्थनाम्ने मतिसागराय मतेः सागराय मतिसागरनाम्ने तां किङ्किणी पाणिगतां विधाय कृत्वा शिक्षामुपदेशं ददौ // 160 // ___ का सा शिक्षेत्याह ममेति-- ममोपनेया भवता प्रियायाः, पार्श्वस्थितस्येयमनयरत्ना / . इतीरयित्वा गतवांस्तदीयं, सौधं समं तेन ससंमदेन // 161 // भवंता अनर्थ्यरत्ना अमूल्यरत्नरूपा इयं किङ्किणी प्रियायाः कनकवत्याः पार्श्वे स्थितस्य मम उपनेया दातव्या इतीत्थमीरयित्वोपदिश्य ससंमदेन हर्षपूर्वकं तेन निजमित्रेण मन्त्रिपुत्रेण समं सह तदीयं कनकवतीसम्बन्धिनं सौधं प्रासादं गतवान् // 161 // अथ तत्र द्यतक्रीडामाह-तयेति-- तया समं सारिभिरुग्रसारः, प्रचक्रमे क्रीडितुमेष वीरः / अभाणि भर्ता विजितस्तयाऽयं, संचार्यतां कोऽपि पणोऽत्र धीमन् // 162 // उग्रसारः उत्कटबलः एष वीरः गुणवर्मा तया कनकवत्या समं सारिभिः पाशकैः क्रीडितुं प्रचक्रमे प्रारब्धवान् तया कनकवत्या विजितः पराजितः अर्य भर्ता गुणवर्मा अभाणि कथितः किमित्याह-धीमन् ! अत्र जयपराजयविषये कोऽपि पणः ग्लहः संचार्यताम् क्रियताम् दीयतां वा // 262 //