________________ AAAAAAmmmmmm. 174 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / ततः उक्तप्रतिवचनानन्तरम् श्रीगुणवर्मणः कान्ता क्रमतः आगतं प्राप्तं स्वस्यावसरं वारं विबुध्य ज्ञात्वा क्षणात् सा कनकवती चलनाख्यं वासो वस्त्रं सज्जं स्थित्यनुगुणं विधाय रङ्गात् हर्षपूर्वकं रङ्गभूमिं नृत्याङ्गणं प्रविवेश // 153 // अथ तत्र वाद्यवादनमाह अवेति अवादयंस्तत्र च वेणुवीणा-तालादिकांस्ताः क्रमशोऽपि तिस्रः। तदा समं प्रेक्षणकं बभूव, समग्रविद्याधरविस्मयाय // 154 // तत्रावसरे च ताः तिस्रः पूर्वमागताः रमण्यः क्रमशः वेणुवीणातालादिकानवादयन् , तदा समग्राणां सर्वेषां विद्याधराणां विस्मयाय सानन्दाश्चर्याय असममनुपमं प्रेक्षणकं नाट्यं बभूव // 154 // अथ तत्र किङ्किणीपतनमाह अस्या इति अस्या विलासातिशयेन लास्य, प्रवृर्तयन्त्याः कटिसूत्रसूत्रात् / .. एकाऽपतत् किङ्किणिका सवेगं, तामग्रहीद् राजमुतस्तटस्थः // 155 // विलासातिशयेन सविशेषभावं लास्यं नृत्यं प्रवर्तयन्त्याः कुर्वन्त्याः अस्याः कनकवत्याः कटिसूत्रस्य मेखलायाः सूत्रादेका किङ्किणिका क्षुद्रघण्टिका सवेगमपतत् , ता किङ्किणी तटस्थः पार्श्वस्थः राजसुतः गुणवर्मा अग्रहीत् नीतवान् // 155 // अथ किङ्किणीशोधनमाह तयेति तया समन्तादवलोकिताऽथ, लास्यावसाने निजकिङ्किणी सा। विद्याधरैरप्यनुयुज्यमानैः, प्रयत्नतः क्वापि न चाऽऽपि किन्तु // 156 // अथानन्तर लास्यस्य नृत्यस्यावसाने समाप्तौ सत्यां तया कनकवत्या सा निजा पतिता किङ्किणिका समन्तात् सर्वतोऽवलोकिता शोधिता, किन्तु विद्याधरैरपि प्रयत्नतः अनुयुज्यमानैः शोधयद्भिः सद्भिरपि क्वापि न च नैव आपि प्राप्ता // 156 // अथ तस्यास्ततः प्रस्थानमाह तस्मिन्निति तस्मिन् समं स्वानुचरैः समग्रै--विद्याधराणामधिपे प्रयाते / सहैव चेटीद्वितयेन सापि, विमानमाश्रित्य चचाल बाला // 157 // विद्याधराणामधिपे समग्रैः सर्वैः स्वस्यानुचरैः भृत्यवगैः समं सह प्रयाते गते सति सा बाला कनकवत्यपि चेटिद्वितयेन सह एव विमानमाश्रित्यारुह्य चचाल प्रस्थितवती // 157 // अथ तेषां स्वस्थानागमनमाह कुमारेति कुमारवीरोऽपि पुरावदेतं, विमानभागं रभसाद् बभाज / स्थानं समायासिषुरात्मनस्ते, सर्वेऽपि तेनैव महारयेण // 158 // .