________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 173 अथ तत्रत्यवृत्तमाह विनम्येति विनम्य सा भक्तिपुरःसरं तं, निदेशमासाद्य पुरो निविष्टा / अत्रान्तरेऽन्या अपि तिस्र एयु-स्तदन्तरे तत्सदृशो रमण्यः // 149 // सा कनकवती तं विद्याधरं भक्तिपुरस्सरं विनम्य प्रणम्य निदेशं विद्याधरस्य आज्ञामासाद्य प्राप्य पुरः विद्याधराग्रतो निविष्टोपविष्टा, अत्रास्मिन्नन्तरेऽवसरे अन्या अपि तस्याः कनकवत्याः सदृशः तिस्रः रमण्यः स्त्रियः तयोविद्याधरकनकवयोः अन्तरे मध्ये एयुरागतवत्यः // 149 // अथ तत्र जिनमन्दिरमाह विद्याधरेति-- विद्याधराणामसमः समाजः, क्षणान्तरे तत्र समाजगाम / युगादिनाथस्य जिनेश्वरस्य, तटेऽस्ति तत्राऽऽयतनं महीयः // 150 // तत्र तस्मिन् स्थाने क्षणान्तरे क्षणादेव विद्याधराणामसमोऽनुपमः समाजः समुदायः समाजगाम / तत्र तटे तडागतटे जिनेश्वरस्य युगादिनाथस्य महीयोऽअतिमहत् आयतनं प्रासादोऽस्ति आसीत् // 150 // अथ तत्कृतजिनभक्तिमाह विद्येति विद्याधरस्ताश्च ततः समस्ताः, समागमन्नायतनं तदेव / चक्रुश्च भक्तिं जिननायकस्य स्नानार्चनालेपनपूर्विकां ते // 151 // विद्याधराः ताः स्त्रियश्च समस्ताः सकलाः, ततः सर्वेषामागमनानन्तरम् तत्पूर्ववर्णितमेवायतनं प्रासादं समागमन्नागतवन्तः, तथा, ते सर्वे जिननायकस्य स्नानमर्चनमालेपनं च पूर्व यस्याः तां तादृशी भक्ति सेवां चक्रुश्च // 151 // अथ तत्र नृत्य प्रस्तावमाह केति का साम्प्रतं नृत्यमहो ! विधाते-त्युदीरिते खेचरनायकेण / ईशानचन्द्रक्षितिपालकन्ये-त्याचख्युरन्याः क्षितिपालकन्याः // 152 // खेचरनायकेण विद्याधरेन्द्रेण अहो ! सम्प्रति का नृत्यं विधाता विद्यास्यतीतीत्थमुदीरिते पृष्टे अन्या क्षितिपालकन्या इत्याचव्युः इतीति किमित्याह ईशानचन्द्रक्षितिपालस्य कन्या कनकवती, नृत्यं विधास्यतीति सम्बध्यते // 152 // अथ तस्याः रङ्गावतारमाह क्रमेति क्रमागतं स्वावसरं विबुध्य, ततः क्षणात् श्रीगुणवर्मकान्ता / विधाय सज्जं चलनाख्यवासः, सा रङ्गभूमि प्रविवेश रङ्गात् // 153 //