________________ 172 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / प्रियवादिनीभ्यां ताभ्यां चेटीभ्यामभाणि कथितम् / किमित्याह--अद्यापि एतावकालपर्यन्तम् यामद्वितयं प्रहरद्वयं न प्रपूर्णम् सा कनवत्युवाच, किमित्याह-तर्हि यामद्वयमपूर्णं चेत्तदा द्राक् शीघ्रमेव सामग्री उपकरणं विधीयताम्, सम्पाद्यताम् कस्योपकरणमित्याकाङ्क्षायाम् प्रयोजनकथनद्वारेणैव तत्पूरयति-तत्रानिर्दिष्टस्थाने चो हेतौ, यतः गम्यं गन्तव्यमस्ति, अतः गमनसामग्री सम्पादनीयेति भावः // 144 // अथ विमानविकरणमाह तेनैवेति तेनैव चेटीद्वितयेन साऽथ, विधापितस्नानविलेपभूषा / क्षणाद् विचक्रे च विमानमेकं, संमानशाला मणिचक्रशालम् // 145 // अथानन्तरं चेटी समादिश्य संमानस्य शालाऽऽस्पदं सा कनकवती तेनैव चेटीद्वितयेन का विधापितं कारितं स्नानं विलेपो भूषा च यस्याः सा तादृशी सती क्षणात् मणिचक्रेण मणिसमूहेन शालते शोभते इति तत्तादृशं मणिमयमेकं विमानं विचक्रे मायया निर्मितवती च // 145 // अथ विमानमारोहणमाह तदिति तच्चेटिकाभ्यां सह सा विमानं, शिश्राय विद्याधरकन्यकेच / अदृश्यरूपोऽस्य विमानकस्य, प्रदेशमेकं गुणवर्मकोऽपि // 146 // विद्याधरकन्यकेव सा कनकवती ताभ्यां चेटिकाभ्यां सह विमानं शिश्राय आरूढा गुणवर्मकः गुणवर्माऽपि अदृश्यरूप एव सन् अस्य कनकवतीविकृतस्य विमानकस्यैकं प्रदेश शिवाय // 146 // अथ नन्दनवनगमनमाह-पन्थेति पन्थानमाक्रम्य मरुत्पथस्य, तडागतीरोद्गतमेककालम् / कौबेरदिग्भागविवर्तमानं, प्रापद् वनं नन्दनसंज्ञकं तत् // 147 // . एककालं युगपदेव मरुत्पथस्याकाशस्य पन्थानं मार्गमाक्रम्योल्लङ्घय कौबेरदिग्भागे उत्तरस्यां दिशि विवर्तमानं स्थितम् तडागानां तीरेणोद्गतमुच्छोभितं तत्प्रसिद्धं नन्दनसंज्ञकं वनं प्रापत् गतवती // 147 // अथ तस्या विद्याधरसमीपगमनमाह सैषेति-- सैषा विमानादवतीर्य तूर्णं, चेटीद्वयालङ्कृतपार्श्वभागा। अगादशोकद्रुमवीथिकान्त-निविष्टविद्याधरसन्निधाने // 148 // सा एषा कनकवती तूर्णं शीघ्रं विमानादवतीर्य चेटी द्वयेनालङ्कृतावन्वितौ पार्श्वभागौ यस्याः सा तादृशी सती अशोकगुमवीथिकायाः अशोकवृक्षपङ्तेक्रन्तर्निविष्टस्योपविष्टस्य विद्याधरस्य सन्निधाने समीपे अगात् // 148 //