________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / तत्स्त्रीरत्नरूपं किं वर्तते ? इति वाऽर्थः प्रिये ! प्रिये ! इदं प्रहेलिकापदं ते तव पुरतो मया उक्तं त्वया स्फुटं परिबुद्धयते किंवा नैव परिबुद्धयते इति प्रश्नः // 140 // अथ राजपुत्र्या उत्तरमाह इतीति-- इतीरितां तां हृदयेश्वरेण, सा राजपुत्री हृदये निधाय / क्षणं विचिन्त्य प्रतिवाक्यमूचे, कान्तानुरूपं तव केवलं तत् // 141 // हृदयेश्वरेण प्रियेण गुणवर्भणा इत्युक्तप्रकारेणेरितामुक्तां तां प्रहेलिकां सा राजपुत्री कनकवती हृदये निधाय धारयित्वा क्षणं विचिन्त्य प्रतिवाक्यमुत्तरमूचे, फिमित्याह--कान्त ! प्रिय ! तत् प्रहेलिकावाच्यं केवलं तव अनुरूपं योग्यम्, किं तदिति चेदित्यम्-प्रश्ने सर्वासु मनोहरासु रामासु किं का परिवर्ण्यते प्रशस्यते इति प्रश्नः, उत्तरे तु स्रीरत्नरूपम्, या रामा स्रीरत्नरूपा सा प्रशस्यते इत्युत्तरमपि भङ्गया तत्रैव निविष्टम् आलोच्य स्त्रीरत्नं तव स्यादिति कनकवतीभावः // 14 // अथ वृत्तान्तरमाह तामिति तां बुद्विवैचित्र्यमयीं विजान-न्नित्यादिगोष्ठीषु समन्वभूत् सः। अदृश्यमाधाय वपुर्निशीथे, भूयो ययौ तद्भवनं कुमारः // 142 // इति प्रहलिकादिबोधनप्रकारेण आदिगोष्ठीषु . प्रथमप्रसङ्गेष्वेव विजानन् विज्ञः स गुणवर्मा कुमारः तां कनकवी बुद्धिवैचित्र्यं विलक्षणत्वं तन्मयीं विशिष्टबुद्धिमती समन्वभूत् ज्ञातवान् भूयः पुनः निशीथेऽर्धरात्रे वपुः स्वशरीरमदृश्यमाधाय कृत्वा तस्याः कनकवत्याः भवनं ययौ परीक्षणायेति शेषः // 142 // तदेति तदाऽऽचचक्षे क्षितिपालकन्या, चेटीद्वयं चैवमुपान्तवति / हले ! त्रियामा कियती व्यतीते-ति सम्यगालोच्य निवेद्यतां मे ? // 143 // तदा भवने गुणवर्मप्राप्तिसमये एव क्षितिपालकन्या राजपुत्री कनकवती उपान्तवर्ति समिपस्थं चेटीद्वयं एवं च आचचक्षे कथितवती / एवमिति किमित्याह हले ! दासीसम्बोधनमेतत् / "हण्डे हज्जे हलाह्वाने नीचां चेटी सखी प्रती"त्यमरः // त्रियामा रात्रिः कियती कियन्मात्रा व्यतीता इति सम्यग् आलोच्य निरूप्य मे निवेद्यताम् // 143 // अथ चेटीकृतोत्तरमाह अभाणीति -- अभाणि ताभ्यां प्रियवादिनीभ्यां, नाद्यापि यामद्वितयं प्रपूर्णम् / उवाच सा तर्हि विधीयतां द्राक, सामग्र्यहो ! तत्र च गम्यमस्ति // 144 //